पृष्ठम्:EkagniKandam.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यानेकानेिकाण्डे.

                                                                                                                                                                                                                                                                                                                                                                            • ** -----------------------

समृध्यतां प्रीतिस्ते वर्धताम् । अॅनन प्रजासम्पतिरुत्क्ता । धर्म सम्पत्तिमाह-अस्मिन् गृहे गार्हपत्थाय गृहपतिभावाय जागृहि अतिथीनामग्रीनां च परिचरणे अवहिता भव । कामसंपत्तिमाह एना अनेन पत्या मया तन् तर्नु शरीरं संसृजस्व संभो गकाले । एवं चिरकालमनुभूय अथ अनन्तरं नीत्री जीर्णाभिः धानमिदमिति निरुक्तकार आह * आत्वारम्भ न जिब्रयः' * इत्यत्र। जीर्णा सती विदर्थं यज्ञे तद्विषयं वक्तव्यं पुत्रपैत्रादीनां आवः दासि आभिमुख्येन वद् इत्थमिदं कर्तव्यमिति । सुमङ्गलीरिति ॥ सुमङ्गली: छान्दसस्सुलोपाभावः । सुमङ्गः लोरियं वधूरिति स्वभावकथनम् । एवम्भूतां इमां समेत समा गच्छत, समेत्य च पश्यत ईक्षध्वं ईक्षकान्प्रति वचनम् । तथा चाश्वलायन: * सुमङ्गलीरियं वधूरितीक्षकानीक्षेत इति । दृष्टा च अस्यै सौभाग्यं दत्वाय दत्वा अथ अनन्तरं अस्तं स्वस्वगृहस्थानं विपरेतन यथेष्टं गच्छत ।।

  • १-८-५.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/५६&oldid=93975" इत्यस्माद् प्रतिप्राप्तम्