पृष्ठम्:Dvisandhanam kavya.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ सर्गः) द्विसंधानम् । अपि तु न ॥ यत् अयमब्धिः सत्वानुकम्पामिरतः प्राणिकृपायामभिरतः । तत् ऋषिम- हानियोग मुनीनां महासेवां किं गतः । अपि तु न तस्य जडत्वात् । किंतु सत्याना मीनादीनां कम्पनतः पश्चात् अभिरतं सामस्त्येन क्रीडनं यस्येत्यर्थः ॥ इन्द्रवज्रावृत्तम् ॥ अमुत्र मकरैः करैर्विरचिता चिता विनियतायताप्य च नमः । नभस्वदयुतायुता दिशमितामिता समहिमा हिमा जलततिः ॥ २४ ॥ अमुत्रेति ॥ अमुत्र देशे मकरैर्यादोविशेषैः करैः शुण्डादण्डैः विरचिता, चिता पुष्टा, विनियता विभिः पक्षिमिनियता संबद्वा, नभो वियद् आप्य आयता दीर्घा च, नभस्वदयु- तायुता वातानामयुतैरा समन्ताङता, अमिता प्रचुरा, समहिमा माहात्म्ययुता, हिमा शीतला, जलततिः पयःपूरः दिशम् इता व्याप्ता ॥ जलोद्धतगतिः ।। समुन्नताम्भोजकुलाभिनन्द्यां विद्याधराणामधिवासभूमिम् । त्वं द्वारकान्तां खलु पश्यसीमां राजन्नलङ्कामहितां परेम्यः ॥ २५ ॥ समुनेति ॥ हे राजन् रावण, त्वं समुन्नताम्भोजकुलाभिनन्या समुन्नतैर्मान्यैः अम्भो- जकुलैविभीषणादिराक्षसैः प्रशस्याम् उद्दण्डकमलराजिविराजमानां वा, विद्याधराणामधि- वासभूमिम् विद्याधराणां खेचराणां निवासभूमिम् , द्वारकान्तां द्वारैः कान्तां मनोहराम् , परेभ्यः शत्रुभ्योऽहिताम् इमां लकां न पश्यसि किम् । पश्यस्येव । भारतीये-हे रा- जन् युधिष्ठिर, समुन्नतां तुङ्गाम् भोजकुलाभिनन्या भोजकुलेन वृष्णिकुलेनाभिनन्याम् । विद्याधराः शस्त्रपरिज्ञानवन्तः । परेभ्य उत्कृष्टेभ्यः अलमत्यर्थ कामहितां यथेष्टहिताम, तामिमां द्वारकां खलु निश्चयेन पश्यसि ॥ उपजातिः ।। कल्लोलैरिह जलधेः सुधागृहाणि व्यज्यन्ते मुरजरवा न गर्जितेन। . नाम्भोदैः सततगतर्गवाक्षधूपाः प्राप्तापि ब्रजति न लक्ष्यतां पुरीयम् ॥२६॥ कलोलैरिति ॥ इह पुरि सुधागृहाणि जलधेः कल्लोलैः, मुरजरवा जलधेजितेन, ग- वाक्षधूपाः सततगतैरम्भोदैः, न व्यज्यन्ते (अतः) प्राप्तापीयं पुरी लक्ष्यतां न याति ॥ प्रहर्षिणी॥ धीरन्तुं गां गत्वा स यस्यामरस्य धीरे तुझाङ्गत्वाच्छूियो वश्चति द्याम् । रिक्तः स्वर्गेणाकारि मानोऽज्ञकेन साम्यं किं सोऽस्या याति मानोज्ञकेन॥२७॥ धीरमिति ॥ अस्या नगर्याः, गां भूमि गत्वा रन्तुं क्रीडितुं यस्यामरस्य देवस्य धीर्घ द्धिर्भवेत् , सोऽमरः (एतस्या नगर्याः) श्रियः शोभायाः, तुङ्गाङ्गत्वात् स्फीताश्यवत्वात् धां स्वर्ग धीरं निक्षोभं यथा स्यात्तथा वश्चति त्यजति । (अतः) अझकेन मूर्खण, स्वर्गण, रिक्तः शून्यः, मानः, अकारि । स स्वर्ग: (अस्याः पुरः) साम्यं तुल्यताम् , मानोझकेन सौन्दर्येण किं याति । नैव याति ॥ वैश्वदेवीवृत्तम् ।। १२ Digiced by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/९९&oldid=234558" इत्यस्माद् प्रतिप्राप्तम्