पृष्ठम्:Dvisandhanam kavya.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। यदीति ॥ रम्या मनोहरा, अवनलता न वनलता अपूर्ववाली वनवासायोग्या लता । उद्यानलतालेशैः उद्यानलतायै क्लेशैरालवालादिकरणलेशैः ।। एनां धनकुचोच्छ्रायव्यवधानात्तनूदरम् । अपश्यन्तीमपश्यन्तस्तेऽद्याप्युदरशायिनः ॥ ८७ ॥ एनामिति ॥ धनकुचोच्छ्रायव्यवधानात् पीनोमतस्तनोच्छायान्तर्धानात् तनूदरं सूक्ष्म- मुदरम् अपश्यन्तीम् एनां सीतां गोपालिका वा अपश्यन्तस्ते अद्यापि उदरशायिनो गर्भ- स्था एव वर्तन्ते । तैः किमपि न दृष्टमिति भावः ॥ गतेन राजहंसीयममदर्शनविठ्ठला । पश्य भाति विलोलाक्षी किंचिञ्चकितमानसा ॥ ८८|| गतेनेति ॥ अस्मद्दर्शनविला अस्माकं दर्शनेन विहला, विलोलाक्षी चश्चललोचना, किंचिञ्चकितमानसा किंचिच्चकित मानसं यस्याः सा इयं सीता गोपालिका वा गतेन ग- मनेन राजहंसी भाति (इति) त्वं शूर्पणखा भीमोऽर्जुनो वा पश्य ॥ एषा कटाक्षपातेन सारङ्गीलोललोचना । वने दिशि दिशि भ्रान्ता दीर्घमन्वीक्षते पतिम् ॥ ८९॥ एषेति ॥ सारङ्गीलोललोचना सारङ्गया इव लोले लोचने यस्याः सा सीता ॥ भार- तीये-लोललोचना चञ्चलाक्षी सारणी हरिणी ॥ श्लेषः । इदमन्यञ्च कलयन्कौतुकाविष्टमानसः । कामादिषुनिरोधेन जितात्मा सन्निपातिना ॥ १० ॥ अवन्यायपथं धीप्सन्नारीणां गोचरं गतम् । मदनाशाधिकोद्योगो मायावेषेण योजितः ॥ ९१ ।। गाढाकल्पकनिष्ठत्वं दूरं कुवैश्छलेन ताम् । खपदव्यवसायाय क्षिप्रं जहे सतीव्रताम् ।। ९२॥ (त्रिभिर्विशेषकम्) इदमेति ॥ इदमुक्तप्रकारम् अन्यत् कामान्धतया युक्तायुक्तविचारमन्तरेण पररमणी- सङ्गं च कलयन निश्चिन्वन्, कौतुकाविष्टमानसः कुतूहलारोपितमानसः कामात् संनिपा. तिना सम्यद्भिपतनशीलेन इषुनिरोधेन षाणनियन्त्रणेन का जितात्मा जित आत्मसास्कृत आत्मा यस्य सः, नारीणां कामिनीनां गोचरं विषयं गतं प्राप्तम् अवन्यायपथम् अनी- तिमार्ग धीप्सन वाञ्छन्, मदनाशाधिकोद्योगः मदने कंदर्प आशया अधिक उद्योगो यस्य सः, मायावेषेण कपटयतिरूपेण योजितः, गाढाकल्पकनिष्ठत्वं गाढे तीव्र आकल्पके कामे निष्ठत्वं तत्परत्वं कुर्वन् (रावणः) सतीव्रता पतिव्रतां तां सीतां छलेन क्षिप्रं शीघ्र Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/९२&oldid=234551" इत्यस्माद् प्रतिप्राप्तम्