पृष्ठम्:Dvisandhanam kavya.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० काव्यमाला। झणा अन्त्यवेधसां पाश्चात्यब्राह्मणां नियः स्रष्टं प्रतिछन्दै प्रतिकृतिः अमाम्या विचारचको- रचन्द्रिका इयं वधूः कृता ॥ भारतीये प्राम्या प्रामीणा ॥ श्लेषः । . एषा विलासभावेन द्योतयन्ती दिगन्तरम् ।। सरस्वतीय संबुद्धा भाति पद्मोदयस्थितिः ॥ ७४ ॥ एषेति ॥ पद्मोदयस्थितिः पयस्य रामस्य उदयायाभ्युदयायैव स्थितिरवस्थानं यस्याः सा संबद्धा सम्यग्ज्ञानपरिणता एषा सीता विलासभावेन 'हावो मुखविकारः स्याद्रायश्चि. तसमुद्भवः । विलासो नेत्रजो यो विभ्रमो भ्रयुगान्तयोः॥ इत्युक्तरूपेण विलासेन भावेन च दिगन्तरं द्योतयन्ती सती । संबुद्धा, पद्मोदयस्थितिः कमलोद्रमस्थितिः, । विलासभा- वेन हंसगमनस्थित्या दिगन्तरं द्योतयन्ती सरस्वती इव । भाति ॥ भारतीये-पग्रोदय- स्थितिः पाया लक्ष्म्या उदयस्थितिरुत्पत्तिस्थानम् ॥ शेषः ॥ रोमराजिलतावृद्धेरालवालीकृतामिव । कपित्थवृन्तसंस्थाननिम्नां नाभिमुपागताम् ॥ ५ ॥ वनराजी प्रवालोष्ठश्रिया पल्लवितामिव । नीलोत्पलमयीं दृष्ट्या स्मितैर्मुकुलितामिव ॥ ७६ ।। कैश्येन कुर्वती मुक्तप्ररोहमिव चालकैः । भृङ्गीमयीं पदन्यासः स्थलपद्ममयीमिव ।। ७७ ॥ . वक्रशीलां भ्रुवोरेव कुचयोरेव कर्कशाम् ।। चपलां नेत्रयोरेव केशेषु कुटिलस्थितिम् ॥ ७८॥ अविलिप्तकृतामोदामपीतासवमन्थराम् । अरुष्टां रक्तलोलाक्षीमतुष्टां विकसन्मुखीम् ॥ ७९ ॥ किंचित्पूर्वप्रियाद्वाल्यं दधतीं यौवनं भरात् । मूढप्रौढान्तरावस्थां साभ्रेडर्के पद्मिनीमिव ॥ ८ ॥ लूनम्लानमृणालाभकर्णपालीसमुन्नतिम् । तालवृन्तानिलेनेव विनती पक्ष्मणा मुखम् ॥ ८१ ॥ गोरक्षिकामिमां स्रष्टुं नूनमध हृतं विधोः । रम्यं धात्रान्यथा चन्द्रः कथमर्धत्वमीयिवान् ८२ (अष्टाभिः कुलकम्) रोमैत्यादि ॥ नूनम् अहमेवं मन्ये । धात्रा ब्रह्मणा रोमराजिलतावृद्धे रोमावलीरूपल- ताया वृद्धिमुदिश्य आलवालीकृताम् इव, कपित्थवृन्तसंस्थामनिम्नां कपित्ये वृन्ताधारव- गम्भीराम, नामिमुपागताम्, प्रवालोष्ठश्रिया नलपलवसदृशाधरशोभया नूलपालवरूपाधरा- Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/९०&oldid=234549" इत्यस्माद् प्रतिप्राप्तम्