पृष्ठम्:Dvisandhanam kavya.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विसंधानमहाकाव्यस्य भूमिका । अयं द्विसंधानमहाकाव्यस्य राधवपाण्डवीयापरनामकस्य कर्ता धनंजयमहा- कविः कदा कतमं भूमिमण्डलं मण्डयामासेति न निश्चितम्. पांत निस्ताब्दपर्यन्तं कश्मीरान्पालयितरवन्तिवर्मणः समकालीनयोर्व- न्यालोकनिर्मायकानन्दवर्धन-हरचरितमहाकाव्यरचयितरत्नाकरयोः स्तावकस्य, ९५९ विस्ताब्दरचितयशस्तिलकचम्पूनिर्माटजैनसोमदेवेन स्तुतस्य, बालरामा. यणायनेकनाटकादिनिर्मातराजशेखरस्य नाना जल्हणादिसंगृहीतसूक्तिमुक्ताव- ल्यादिषु लिखितेषु प्राचीनकविवर्णनाश्लोकेषु (सूक्तिमुक्तावलि-सुभाषितहारावल्योः) "द्विसंधाने निपुणतां स तो चक्रे धनंजयः। यया जातं फलं तस्य सतां चके धन जयः ॥' इत्युपलभ्यमानत्वेन 'राजशेखरकवेः प्राचीनो धनंजयकविरासीत् इति. प्रकृतकाव्ये जैनसमयमात्रप्रसिद्धकथानां निबद्धत्वात् 'जैनः सः' इति च प्रतीयते. 'प्रमाणमकलङ्कस्य पूज्यपादस्य लक्षणम् । द्विसंधानकवेः काव्यं रनत्रयमकण्टकम् ॥ कवेर्धनंजयस्येयं सत्कवीनां शिरोमणेः । प्रमाणं नाममालेति श्लोकानां च शतद्वयम् ॥' इति धनंजयनिघण्टुरूपनाममालाया दर्शनेन अकलङ्कप्रमाण-पूज्यपादलक्षण-नाममाला अप्यनेन धनंजयेन निर्मिता इति प्रतीयते. अकलङ्क पूज्यपादयोर्ग्रन्थकर्तृले तु धनंजयेन द्विसंधानकाव्यं नाममाला चेति ग्रन्थद्वयं निर्मितमिति ज्ञेयम्. सभङ्गामाश्लेषप्रधानतया कथायवर्णकस्य तस्य चास्य महाकाव्यस्य टीकापि वि. नयचन्द्रान्तेवासिनेमिचन्द्रण महती कृतासीत. तस्याश्चातीव विस्तृतत्वात्ततः सार- मुदृत्य श्रीबदरीनाथेनेव सकलसुमनोभूषितेन दाधीचजयपुरसंस्कृतपाठशालाध्याएकवित- द्वरबदरीनाथेनेयं सुधारूपा प्रकाशिता. इमे च १८९५ सिस्ताब्दे इदं जगदसारं मत्वा परलोकं प्रस्थितवन्तः. तस्य चास्य सटीकस्य महाकाव्यस्य शोधने यदावयोः स्खलन स्यात्तत्परमदयाईमनस्कः शोधनीयं क्षन्तव्यं च. यतः- गच्छतः स्खलनं कापि भवत्येव प्रमादतः। इसन्ति दुर्जनास्तत्र समादधति सजनाः ॥ इति विज्ञापयतः पण्डितशिवदत्त-काशीनाथौ. Dogices o, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/९&oldid=233019" इत्यस्माद् प्रतिप्राप्तम्