पृष्ठम्:Dvisandhanam kavya.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । वेगिनीमिति ॥ स्यन्दनक्रियां रथव्यापार वेगिनी वेगवती सतीम्, उच्चस्तीक्ष्णाशमु- खोद्यताम् अतितीक्ष्णाङ्कशाप्रसंकुचितगात्राम्, कुञ्जराजिश्रियं गजश्रेणिश्रियम्, च दीनां म्लाना न पश्यामि अपि तु पुष्टाम् ॥ भारतीये-नदीनामापगानाम्, स्यन्दनक्रियाम् प्रसव- पव्यापार देगिनी रयवती, उच्चैरुचा, तीक्ष्णां निरीक्षणीयां, कुशमुखोद्यतां कुसाग्रनिर्मिनां, कुजराजिश्रियं झाटकसमूहश्रेणिशोमा च ॥ श्लेषः ॥ सर्वत्र विषयेऽमुष्मिन्भ्रान्तदृष्टिरितस्ततः । न पश्यामि क्वचित्तीनं द्विषतां खरदूषणम् ॥ ६३ ॥ . सर्वप्रेति ॥ द्विषतां शत्रूणां तीनं सोडुमशक्यम्, खरदूषणं राक्षसजातीयम् ॥ भार- तीये--खरदूषणमुप्रापराधम् ॥ देव किं बहुनानेन साधुनासाधुनाथवा । निष्पश्चिममिदं पश्य नेत्रमात्राखिलेन्द्रियः ॥ ६४ ॥ देवेति ॥ अनेन परिजल्पितेन किम् । इदं वक्ष्यमाणम्, निष्पश्चिममद्वितीयम् । नेत्र- माने समारोपितसकलेन्द्रियव्यापारः सन् ॥ पटुः सुघटविस्तारसमस्तन्यायनीतिषु । , रहितोदारतुष्टात्मा मदिराक्षीबताशया ॥ १५ ॥ पद्मपाणिरशोकाभिः पतबिम्बाधरोन्नतिः । गम्भीरनाभिरुत्तुङ्गवक्षाश्चन्द्राननद्युतिः ॥६६॥ कम्बुग्रीवालधुश्रोणिः स्निग्धकेशान्तसंहतिः । सुभूमण्डूककक्षाश्रीश्वारूरू रम्यतावधिः ॥ ६७ ॥ नखैः कुरबकच्छायैः श्लिष्टैरङ्गुलिपर्वभिः । दशनैः शिखराकारैर्व्यज्यमानोदयाकृतिः ॥ ६८ ॥ विनीतवेषमाकारं वाणीमभिजनोचिताम् । शीलं रूपानुरूपं च व्याददानोदयान्वितम् ॥ १९ ॥ आश्रमः सर्वशास्त्राणामाकरः सर्वसंपदाम् । अन्योन्यसमयुग्माङ्गव्यञ्जनानामुपाश्रयः ॥ ७० ॥ आभिरूप्यस्य नियतिः सीमा सौभाग्यसंपदः ।। लावण्यस्य पयोराशिः कलानां नित्यचन्द्रिका ॥ ७१ ॥ Digized b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/८८&oldid=234547" इत्यस्माद् प्रतिप्राप्तम्