पृष्ठम्:Dvisandhanam kavya.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ काव्यमाला। काशते ॥ भारतीयपक्षे-अपावितस्थाने अनुपद्रुतप्रदेशे पुण्डरीकिणि कमलयुते सरः सरो. वरं वा काकी श्लेषः॥ नातिकामन्ति सरितो गतिस्खलितदूषिताः। असिन्नेकानुकूलत्वं यान्ति गेहेऽजना इव ॥ ३३ ॥ नातीति । गतौ स्खलितं स्खलनं दूषितं यासां ताः सरितोऽस्मिन् स्थानेऽनौ सरसि च (अगना गेहे इव) नातिकामन्ति न लान्ते किंतु एकानुकूलत्वं यान्ति ॥ उपमा ॥ पयोधरमराक्रान्तनितम्बालसविक्रमाः । तन्वीः स्पर्शसुखोत्सङ्गा नानाकुसुमवासिताः ॥ ३४ ॥ सानुवृत्तोरुसंभोगा गम्भीरावर्तनाभिकाः । रम्याधरोदरीभूताः प्रारोहचिकुरश्रियः ॥ ३५ ॥ युक्ताः कुशलताभोगैरुत्कटाक्षाः शुभाननाः । कान्ता बिभर्ति देशोऽयमसिन्हुच्चैस्तलोदरीः॥३६॥(त्रिभिर्विशेषकम्) पयोधरेति ॥ उच्चस्तल उच्चभूमिकोऽयं देशः अस्मिन्नद्रौ, पयोधरभराक्रान्तनितम्बा. लसविक्रमाः पयोधराणां मेघानां भरेण आक्रान्तैनितम्बैः सानुभिरलसानां मन्दगतीनां वीनां क्रमः पादविक्षेपो यत्र ताः, तन्वीः मृद्वीः, स्पर्शसुखोत्सङ्गाः स्पर्शेन सुखकदुत्सङ्गो यत्र ताः, नानाकुसुमवासिता: विविधपुष्पसुरभीकृताः, सानुवृत्तोरुसंभोगाःसानुषु वृत्तोव- तुल उरुगंरिष्ठः संभोगो विस्तारो यासां ताः, गम्भीरावर्तनामिकाः गम्भीरोऽतलस्पर्शः आवर्तः पयोधमो यत्र ताक् नामिर्मध्यदेशो यास ताः, रम्या मनोहराः, धरोदरीभूता धरायाः पृथ्व्या उदरीभूताः, प्रारोहचिकुरश्रियः प्रारोईवक्षनेत्रैरेव चिकुरैः केशैः श्रीः शोभा यासां ताः, कुशलताभोगैर्दर्भवल्लीसमूहैर्युक्ताः, उत्कटाक्षा प्रचण्डविभीतकाः शुभानना रम्यद्वारप्रदेशाः, कान्ताः कमनीया, जलनिकटाश्च, दरीविभर्ति ॥ भारतीयपक्षे-अयं देशोऽस्मिन् सरसि, पयोधरभराक्रान्तनितम्बालसविक्रमाः स्तनभाराकान्तकटिप्रदेशम- न्दचरणाः तन्वीः कुशलोमनखादिकाः, सानुवृत्तोरुसंभोगाः सानुपूय॑जहाविस्ताराः, गम्भीरावर्तनामिका निम्म्रवर्तुलनाभिप्रदेशाः, रम्याधरोदरीभूताः मनोहरौष्टोदरीभूताः, प्रारो- हचिकुरश्रियः प्रारोहाणामिव चिकुरश्रीः केशशोमा यासां ताः, कुशलताभोगैश्चातुर्यप्राचुर्यै- युक्ताः, उत्कटाक्षाः उद्तापालाः, शुभानना मनोहरवदनाः, उच्चस्तलोदरी: उच्चैरतीव तलं क्षाम उदर यासां ताः कान्ताः कामिनी: बिभर्ति ॥श्लेषः ॥ विक्षिप्तपुष्पशयनाः सुरतापातसंभ्रमात् । कुसुमेषुचिताः कामसङ्ग्रामरचना इव ॥ ३७॥ अलीककलहाकृष्टसूत्रशेषीकृतस्त्रजः। . अन्योन्यबन्धनानीतविशसूत्रयुता इव ॥ ३८ ॥ Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/८२&oldid=234540" इत्यस्माद् प्रतिप्राप्तम्