पृष्ठम्:Dvisandhanam kavya.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ सर्गः) द्विसंधानम् । अपवने प्रसन्नो गुणत्रयसमन्वितः पवनो वातो यत्र तत्र वने क्रीडन् किनराणां गण उत्प- लायत रावणभयेनोडीनः ॥ शरदं दृष्ट्या उत्पलायतलोलाक्षः कमलदीर्घचत्रललोचनः प्रसमपवने वने कामुकीमिः सह क्रीडन् नराणां गणः किम् उपारतः । अपि तु नोपा- रतः ॥श्लेषः ॥ साधुन्यायेयमत्युच्चैर्गतोद्धतगतिः स्थितः । इच्छुः प्रसादमेतस्य लोकः प्रणतिमीयिवान् ॥ ६॥ साध्विति ॥ साधुन्याये सत्पुरुषैः सुरचिते मार्गे साधुमार्गे वा, स्थितः, अत्युचैर्गतोद्धत- गतिः अत्युच्चैरतिशयेन गता उद्धता उत्कटा गतिर्वर्तनं यस्य सोऽयं लोकः [अस्यरावणस्य] प्रसादमिच्छु: सन्नेतस्य रावणस्य प्रणति प्रणाममीयिवान् कृतवान् ॥ शरत्पक्षे-या धुन्या नया अत्युच्चैरतिशयेन उद्धतगतिरासीत् सा इयं गता । तथा प्रसादं पुष्पफलादि- संपत्तिमिच्छु: सन् स्थितः लोक एतस्य शरदः प्रणतिमीयिवान् ॥ प्रथमे पक्षे भूम्यादि- . क्षोभः, द्वितीये शरत्स्वभावकथनम् ॥ श्लेषः । वीचिबाहुभिरालिङ्गंश्चिरदृष्टामिवावनिम् । पारावारश्चचालोचैरपारः पूरयन्दिशः ॥ ७ ॥ वीचीति ॥ रामायणपक्षे रावणदर्शनेन समुद्रक्षोभः । शरत्कालस्वभावकथनं च ॥ सहसा वल्लकीहस्ता विचेलुः सिद्धकोटयः । दिवि ज्योतिर्गणज्योतिस्तीनं जज्ञेऽतिविद्युति ॥ ८॥ सहसेति ॥ दिवि गगने तीवमपि ज्योतिर्गणज्योतिः नक्षत्रसमूहतेजः अतिविद्युति ते- जोहीनं जज्ञे ॥ शरत्पक्षे सहसा हास्यसंयुक्ताः । अतिविद्युति अतिक्रान्तविद्युति दिवि नक्षत्रगणतेजस्तीत्रमुग्रं जज्ञे ॥ श्लेषः ।। विमुक्तं दूरमभ्रान्तैर्विमानैः ककुबन्तरम् । नभश्चरसमारूढः कृतकानकशिन्जितैः ॥९॥ विमुक्तमिति ॥ अभ्रान्तैः निःसंदेहेर्धमणरहितैर्वा, नभश्वरसमारूढः नभश्चरा देवाः समा. रूढा येषु तैः, कृतकानकशिशितैः कृतानि कानकानां स्वर्णभूषणानां शिअितानि येषु तैः, विमानैः, ककुबन्तरम् दिगन्तरम् , दूरं यथा स्यात्तथा विमुक्तम् ॥ शरत्पक्षे-विमानैः विगतं मानं परिगणनं येषां तैरसंख्यैः, कृतं केन जलेन आनकस्येव शिअितं यत्र तैः, रसं जलम् आरूदैः सजलैः, अभ्रान्तः पयोधरस्वरूपैः ककुबन्तरं दिगन्तरं नमो वियच दूरं यथा स्यात्तथा विमुक्तम् ।। श्लेषः ॥ छोत्कारच्छातजठरैस्तृणकौतुककंकणैः । बन्धूकतिलकन्यासैर्नीलोत्पलवतंसकैः ॥ १० ॥ Dosguced by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/७७&oldid=234536" इत्यस्माद् प्रतिप्राप्तम्