पृष्ठम्:Dvisandhanam kavya.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ५ सर्गः] द्विसंधानम् । उत्कीर्णा इति ॥ मदजलनिर्झरं मदमेव सलिलप्रनवणम् । मदेन तुल्यं सलिलोत्सं च, वहन्तो धारयन्त उन्मताः क्रोधामिज्वलितदृशः क्रोधरूपामिना ज्वलिता दृकू येषां ते क्रोधतुल्यमनिज्वलितं दावानलज्वालैव दृग् येषां तादृशश्च, सहेमकक्ष्याः ससुवर्णगण्डाः सह हेनः कश्यया मध्यदेशबन्धनोपयुक्तरज्ज्वा हादिप्रकोष्ठेन च। भूभृतो हि भूभृन्मध्ये दुर्गहादि रचयन्ति । नागा गजा गजानामाकारैः उत्कीर्णा उल्लिखिताः कुलपर्वता इव प्रतिदिशं धावन्ति ।। उत्प्रेक्षा ॥ प्रहर्षिणी वृत्तम् ।। सामना मदवशान्मतिहीना वक्रमङ्कुशमृनुं युधि चक्रुः । प्रायशः परिजहाति जनोऽयं तीव्रमेव समुपेत्य शठत्वम् ॥ ६ ॥ सामजा इति ॥ मदवशात् मतिहीना बुद्धिहीनाः सामजा गजा युधि वक्रमपि अङ्कुशं ऋजु चक्रुः । अयं जनः प्रायशः बाहुल्येन शठत्वं समुपेत्य संप्राप्य तीवमेव नितान्तमेव परिजहाति ॥ अर्थान्तरन्यासः । स्वागतावृत्तम् ॥ मुखकृतकपटाः प्रमत्तचित्ताः परुषरुषश्वरणेषु सत्वखिन्नाः । गुरुकुलमतिचक्रमुः कुशिष्या हितमिव संयति संयतं गजेन्द्राः ॥६॥ मुखेति ॥ मुखकृतकपटाः मुखे कृत आलानाय हस्तिनीमूत्रसाईवस्त्रनिर्मितहस्ति- न्युपन्यासरूप: कपटो येषाम्, मुखे गुरुमुख कृतं कपटं कौटिल्यं यैस्तादृशश्च । प्रमत्तचित्ता उन्मादिचेतस्काः सप्रमादहृदयाश्च। परुषरुषः निररोषाः । च पुना रणेषु सङ्गामेषु कल. हेषु च सत्सु अखिन्ना अश्रान्ताश्च । यद्वोपमानविशेषणेषु सत्सु शास्त्रसंमतेषु चरणेषु चा- रित्रोपदेशेषु परुषरुषः गजेन्द्राः कुशिष्या इव संयतं प्रयत्लायत्तं वचनचरणसंकेतं आत्म- निष्ठं च, हितम् अव्यभिचार सुखकारि च, गुरुकुलं महामात्रसमूह सूरिसंदोहं गुरुवंश वा, संयति सङ्ग्रामे तपसि च अतिचक्रमुः। अतिक्रामन्ति स्म ।।श्लेषः ॥ पुष्पिताग्रावृत्तम् ।। उभयपार्श्वगतान्निशिताशराशयुसमेन करेण विपाटयन् । गजगणः शुशुभे व्रणगहरैः सपदि सौध इवामलजालकैः ॥ ६८ ॥ उभयेति ॥ गजगणो हास्तिकं शयुसमेन अजगरतुल्येन करेण शुण्डादण्डेन उभौ पाश्वौं गतान प्राप्तान निशितान् तीक्ष्णान् शरान् विपाटयन्' उत्पाटयन् सन् सपदि शीघ्रं प्रणगहरैः अरुश्छिद्रैः सौधः अमलजालकैर्निर्मलगवाक्षजालैरिव शुशुभे ॥ उ- पमा ।। द्रुतविलम्बितं वृत्तम् । इति स पृतनां दृष्ट्वाविद्यामिव प्रतिबन्धिनी जलनिधिरिव क्षुभ्यलक्ष्मीधरोऽनुमतोऽग्रजम् । Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/६५&oldid=234520" इत्यस्माद् प्रतिप्राप्तम्