पृष्ठम्:Dvisandhanam kavya.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ सर्गः] द्विसंधानम् । सिन्दूररेणुः करिकर्णतालैरुद्धूयमानो दिशि विप्रकीर्णः । रुद्धार्यमाभ्याधित तापसानां संध्यासमाधौ नियमैकबुद्धिम् ॥ ४३॥ सिन्दूरेति ॥ करिकर्णतालैर्गजश्रोत्रव्यजनैरुध्यमान उत्क्षिप्यमानो दिशि दिक्षु वि. प्रकीर्णः प्रस्तो रुद्धार्यमा आच्छादितसूर्यः सिन्दूररेणुः सिन्दूरधूली तापसानां वतिनां संध्यासमाधौ संध्याकर्मणि नियमैकबुद्धिमनुष्ठानैकमतिमभ्याधित कारितवान् ॥ भ्रान्तिः ॥ अभूत्प्रकाशं विपिनं प्रचारैः कूलंकषाणां न्यपतस्तटानि । निपीतनीरप्रतिदित्सयेव द्विपा मदाम्भो ववृषुः सरःसु ॥ ४४ ॥ अभूदिति ॥ विपिनं वनं प्रचारैश्वरणघटनाभिः प्रकाशं निविडान्धकाररहितम् अभूत् संजातम् । कूलंकषाणां नदीनाम् तटानि न्यपतन् । द्विपा गजा निपीतनारप्रतिदित्सया निपीतस्य पीतकर्दमावशिष्टस्य नीरस्य प्रतिदातुमिच्छयेव मदाम्भो मदजलं सरःसु सरोव- रेषु वषुः । समुच्चयः ॥ सौदामिनीदामचितेव शस्त्रैरभ्राकुलेव द्विरदैर्दिगासीत् । समुद्रवेलेव चलैस्तुर रैलोक्ययात्रेव जनैश्चलद्भिः॥ ४५ ॥ सौदामिनीति ॥ दिग् शस्त्रैः सौदामिनीदामचिता तडिन्मालावगुण्ठितेव, द्विरदैगंजैः अभ्राकुला मेघव्याप्तेव, चलैस्तुरजैरश्वैः समुद्रवेलेव, चलगिर्जनैः त्रैलोक्ययात्रेव, आ- सीत् ॥ उत्प्रेक्षा ॥ वंशावतारं जगतीपतीनां ववन्दिरे बन्दिनना गुणांश्च । श्वेतातपत्राणि समुल्लसन्ति क्षीरार्णवस्योत्कलिकाः प्रजिग्युः ॥ ४६॥ वंशेति ॥ वन्दिजना जगतीपतीनां क्षितीश्वराणां वंशावतारं यथा स्यात्तथा गुणांश्च व- वन्दिरे । समुल्लसन्ति श्वेतातपत्राणि शुभ्रच्छाणि क्षीराणवस्य उत्कलिकास्तरङ्गान् प्र. जिग्युः ॥ समुच्चयः ॥ संक्रीडितं स्यन्दनचक्रजातं वने मयूरा विनिशम्य रम्यम् । घनारवोत्काः पतिता इवौधैः पिच्छातपत्रप्रकरा विरेजुः ॥ ४७ ॥ संक्रीडितमिति ॥ पिच्छातपत्रप्रकराः मायूरपिच्छजातच्छत्रसमूहाः वने स्यन्दनच- क्रजातं रथस्य चक्राभ्यां जातं रम्यं मनोहरं संक्रीडितं चीत्कृतं विनिशम्य श्रुत्वा घनार- वोत्का मेघगर्जनोत्कण्ठ ओधैः समूहैः पतिता मयूरा इव विरेजुः शोभन्ते स्म ॥ उत्प्रेक्षा ॥ शङ्खानकारावमयी पतीनां दिशां श्रुतिः सैन्यमयी च दृष्टिः। रजोमयी कामविमानभूमिः शङ्कात्मसंहारमयी बभूव ॥ १८ ॥ शङ्केति ॥ दिशां पतीनां दिक्पालानां श्रुतिः श्रोत्रं शङ्खानकारावमयी शङ्खपटहध्वनि- Digated toGoogle

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/६१&oldid=234516" इत्यस्माद् प्रतिप्राप्तम्