पृष्ठम्:Dvisandhanam kavya.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ सर्गः] द्विसंधानम् । १९ चकः अवधूतो जटाजूटधारी सन् , देहमयं शरीरहेतुं रसं दुग्धदधिघृतादि वै निश्चयेन विहाय ॥ श्लेषः॥ वजानि कार्याणि निरूप्य हत्यां बलीयसस्तस्य च कौरवेण । जिहीर्षता मानधनं बलेन संप्रेरितेनाम्युदितं खरेण ॥ ३४ ॥ स्वजानीति ॥ बलीयसस्तस्य शम्बुकुमारस्य हत्यां वघे सति को क्षितौ स्वजानि का- र्याणि आत्मीयानि कृत्यानि रवेण निनादेन निरूप्य निवेद्य को क्षितौ रवेण निनादेन मानधनं जिहीर्षता खरेण दूषणज्येष्ठभ्राता रक्षसा संप्रेरितेन बलेन अभि समन्तत उदित प्रसृतम् । यद्वा बलीयसस्तस्य लक्ष्मणस्य मानधनम् ॥ भारतीये-बलीयसस्तस्य कीच- कस्य हत्या हनने । बलीयसः तस्य बृकोदरस्य वा । मानधनं जिहीर्षता. खरेण तीव्रण कौरवेण दुर्योधनेन । लेषः ॥ आवारितो मध्यगतैः प्रबन्धैराहन्यमानोऽपि कृतावलेपः । शब्दायमानः कलहायमानस्तूर्योत्करो दुर्जनमन्वियाय ॥ ३५ ॥ आवारीति ॥ मध्यगतैः उदरस्थितैः, मध्यस्थपुरुषैश्च । प्रबन्धैर्वध्रीभिश्चर्मरज्जुभिः, निब- न्धैश्च । आवारितो नियश्रितः, निषिद्धश्च । आहन्यमान: ताड्यमानः अपि कृतावलेपः कु. ततैलादिलेपः, विहिताहंकारश्च सन् शब्दायमानः ध्वनि कुर्वाणः, यथेच्छशब्दप्रयोगं कुर्वेश्च । कलहायमानः कलहोद्योगं कुर्वाणः । युद्धकालेषु तू% रागविशेषेण वीरताधिक्यं जायते इति प्रसिद्धिः ॥ तूर्योत्करो वाद्यसमूहः, अन्वियाय अनुकृतवान् ॥ उन्मग्नशङ्ख श्रमफेनयुक्तमावर्तशुद्ध शफराजिलोलम् । आश्वीयमुल्लङ्घनशीलमुद्यचक्राम कल्लोल इवाम्बुराशेः ॥ ३६॥ उन्मनेति ॥ उन्मनशलं उन्ममाः प्रव्यक्ताः शङ्खाश्चक्षुःसमीपप्रदेशा यस्य ताक्, उच्छलितकम्युश्च । श्रमफेनयुक्तं श्रमोत्पन्नफेनपिण्डयुक्तम् , श्रमवत्फेनयुतश्च । आवर्त- शुद्धम् आवर्तेधूवशुभमानधैर्यैः शुद्ध समीचीनम् , अम्भोभ्रमशुद्धश्च । शफराजिलोलं खु.. रपतिचञ्चलम्, मीनगणचञ्चलश्च । उल्लङ्नशीलम् उत्तवनधर्माध्यम्, उत्सवनधर्मा च। उ. द्यत् अव॑ गच्छत् , गच्छंश्च । आश्वीयमश्वसमूहः । अम्बुराशेः कलोल इव चक्राम . चचाल ॥ स्नेहाद्वहन्ती क्षणमुत्कटाक्षा वेश्येव शल्यं हृदये दधाना । उच्चाल्यमानातुरगैः परैश्च स्थानाद्विरोधेन चचाल रथ्या ॥ ३७ । नेहादिति ॥ हात् तैलादितः, प्रीतेश्च । वहन्ती प्रवर्तमाना । उत्कटाक्षा निठुर- चक्रभ्रमणकाष्ठा, उत्क्षिप्तलोचना च । हृदये मध्ये, मनसि च । शल्य तोमरादिशस्त्रं धुरं वा, कौटिल्यं च । दधाना धरन्ती । परैर्जातिसंपन्नैः, तुरगैरश्वैः, आतुरगैश्वपलगतिभिः Digitzed e, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/५९&oldid=234514" इत्यस्माद् प्रतिप्राप्तम्