पृष्ठम्:Dvisandhanam kavya.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ सर्गः द्विसंधानम् । सहोरिक्षताङ्गलिविन्यासेन वर्तमानहस्तम्, उदात्तनायक सत्यगानवनायकम्, कृतमानार- सभावविभ्रम कृता नाना रसाः राकारादयः भावाश्चेतोविकाराः विभ्रमाः कुटिलभूभातया- (वलोकनानि यत्र ताक्, प्रतिरक्षानिविष्टपात्रकं प्रतिनत्यस्थानप्रविष्टनर्तक्यादि नाट्य- मिव । अद्युतत्तराम् ॥ श्लेषोपमा । श्रवणेषु मृदङ्गनिखनाजनतोवाच परस्परं वचः । ललनाश्व कपोलघट्टनान्निरविक्षन्विनिमीलितेक्षणम् ॥ २४ ॥ श्रवेति ॥ जनता मृदा निस्वनात्परस्पर कर्णयोर्वच उवाच ललनाः कपोलघटनाद्वि. निमीलितेक्षण यथा स्यात्तथा निरविक्षन् प्राविक्षश्च ॥ समुच्चयः ॥ भुवि पुष्पमपूरि गुल्फ पटवासोऽपि वितस्तरे दिशः।। वियतोऽपि तलं वितेनिरे पुरि कालागुरुधूमयष्टयः ॥ २५ ॥ भुवीति ॥ पुरि भुवि पृथिव्यां पुष्पं गुल्फकम् अपरि, पटवासो दिशो वितस्तरे, का- लागुरुधूमयष्टयः वियतस्तलं वितेनिरे ॥ समुच्चयः ॥ अधिरुह्य जनेन पश्यता गृहचैत्यद्रुमशालगोपुरम् । परितोऽनवकाशकारणानगरीवोपरि तस्थुषी पुरः॥ २६ ॥ अधीति ।। अनवकाशकारणात् परितः गृहचैत्यगुमशालगोपुरम् मन्दिरदैवकुलवृक्षप्रा- कारतोरणद्वारम् अधिरुह्य पश्यता जनेन पुर उपरि नगरी स्थितवतीव । बभूव इति शेषः । उस्प्रेक्षा ॥ अभिषेकजललवेन सा वसुधा दीर्घमुदश्वसीत्तदा । नवसंगमधर्मवारिणा खपिताशामिनवा वधूरिव ॥ २७ ॥ अभीति । तदा सा वसुधा अभिषेकजलप्लवेन राज्याभिषेकवारिणा नवसंगमधर्मवा- रिणा नूतनसंयोगस्वदेजलेन मपिताङ्गा अभिषिक्तशरीरा अभिनवा संभवयौवनभरा वधूरिव दीर्घ यथा स्यात्तथा उदश्वसीत् ॥ उपमा ॥ कमला च दलान्तरस्रवज्जलबिन्दूज्वललम्बमौक्तिकम् । कमलातपवारणं तदा शशिशुभ्रं बिभरांबभूव तत् ॥ २८ ॥ कमलेति ॥ तदा कमला लक्ष्मीः दलान्तरसवबालबिन्दुज्ज्वललम्बमौक्तिकं पत्राणाम- न्तरालतः सवन्तोजलबिन्दव खोज्ज्वलानि लम्बानि मौक्तिकानि यस्य तादृशम् , शशिशु- भ्रम् इन्दुधवलं तत् कमलातपवारणं बिभरांबभूव ॥ स्वभावान्वाख्यानम् ॥ हरिविष्टरमध्यमास्थितः प्रचलचामरचारुसंहतिः। स जिगाय समुद्रवीचिभिः खलु वेलाचलमाहतं युवा ।। २९ ॥ Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/४५&oldid=234497" इत्यस्माद् प्रतिप्राप्तम्