पृष्ठम्:Dvisandhanam kavya.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। तस्मिन्सुते तत्क्षणजातमात्रे रत्नप्रदीपाः प्रभया विमुक्ताः । नित्यं नरालम्बितभोगभागा नागा इवोच्चैः सविषादमस्थुः ॥ १२ ॥ तस्मिमिति ॥ तस्मिन् सुते तत्समयजातमात्रे सति रत्नप्रदीपा प्रभया विमुक्ताः, नित्यं नरे आलम्बितो भोगभागो यैस्ते नागा इव, उचैः सविषादं यथा स्यात्तथा अस्थुः ॥ उत्प्रेक्षा ॥ नालं न्यधित्सद्भुवि यत्र नाभ्यं पदे पदे तत्र निधि निचाय्य । रोमाञ्चितः कश्चकमन्यदेकं स कझुकी पर्यधितेव हृष्टः ॥ १३ ॥ नालमिति ॥ स कक्षुकी यत्र भुवि नाभिभवं नालं. न्यघित्सत् तत्र पदे पदे निधि नि. याय्य हृष्टः सन् रोमाश्चितः समन्यदक कश्रुक पधितव उत्प्रेक्षा ॥ दिशः प्रसेदुर्विमलं नमोऽभूत्सौवं न्यपतत्कुसुमं नमस्तः । विरिद्धमिद्धं दिवि दुन्दुभीनां किं भागधेये सति दुर्लभं वा ।। १४ ।। दिश इति ॥ दिशः प्रसन्ना अभूवन्, नभो निर्मलमभूत्, आकाशतो दिविजं कुसुमं नितरां पपात, दिवि दुन्दुभीनां विरिद्धं ध्वनितम् इद्धं तारमभूत् , अथवा भागधेये भाग्ये सति (प्राणिनाम्) किं दुर्लभ स्यात् ॥ अर्थान्तरन्यासः ॥ आशीतिका वर्षवराः पुरंभ्यः पश्चाशदुत्तीर्णदशा निशान्ते । कुब्जाश्च पुत्रोत्सवमोहमन्त्रैरनर्तिषुः स्तोममिवाभिनीताः ॥ १५ ॥ आशीतीति ॥ अशीति भूता आशीतिकाः । 'तमधीठो भृतो भूतो-' इति ठक् ।। वरैरधिका अन्तःपुररक्षणनियुक्ता नपुंसकरूपा महत्तराः पश्चाशद् वर्षाणि उत्तीर्णा दशा वयो यासां तादृशः पुरंध्यः कामिन्यः कुब्जाश्च अनुप्रपृष्ठवंशाः पुत्रोत्सवेनैव मोहमन्त्रैः स्तोभमावेशम् अभिनीताः प्रापिता इव मृत्यं चक्रुः ॥ उत्प्रेक्षा । निवेदयन्यः सुतजन्म राजा स राज्यचिहं सुतराज्यमास्वम् । हित्वैतदेकं धृतवान्न किंचिद्देयं हि तुष्टैरपि नान्यदीयम् ॥ १६ ॥ निवेदेति ॥ स राजा सुतजन्म निवेदयद्रथः एकं यौवराज्योपयोग्यं राज्यचिहं हित्वा न किंचिदृतवान् । हि यतः तुष्टैरपि अन्यदीयं न देयम् ॥ अर्थान्तरन्यासः ॥ अन्तःपुरे राजनि राजधान्यां देशेऽप्यसंमाय दिशामधीशान् । व्याप्यासनक्षोमकृदुत्सवोऽयमचापि विश्राम्यति न प्रजासु ॥ १७ ॥ अन्तेति ।। अयम् आसनस्योपवेशनस्य क्षोभं संचलनं करोति स उत्सवः दिशामधी- शान्व्याप्य अवरोधे राजान राजधान्या देशेऽप्यसंमाय अद्यापि प्रजासुन विश्राम्यति ।। समुच्चयः ।। Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/३४&oldid=234479" इत्यस्माद् प्रतिप्राप्तम्