पृष्ठम्:Dvisandhanam kavya.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ सर्गः द्विसंधानम् । २१ या रूपशीलेन चार्वी मनोज्ञा सती दीमेध्वकिंचित्करेषु, अर्थिषु, दीनाम्लाना काकु मनोभिप्राय वक्रोक्ति वा न लोभस्य वाद उक्तिर्यत्र तस्मात् त्यागसानिध्ययोगात त्यागनैकट्यसंपन्धात् नाददे ॥ भारतीयपक्षे-असौ कुन्ती रामः पाण्डोः स्वान्तमन्तर्जहार । को क्षितौ शल्या शल्यमिव शल्या आत्मीयरूपशीलेनान्यासां कमनीयकामिनीनां शल्योत्पादकत्वात् । यतो रूपशीलेन चावी । अथवा कुशलभावः कौशली तया । एतेन वेणुवीणादीनां चतुःषष्टि- कलानां परिज्ञानलक्षणं दक्षत्वं प्रदर्शितम् । रूपशीलेन च चार्वी मनोहरा या दीनोऽग- विष्ठोऽको लक्षणं यस्यास्तादृशी सती आगसामपराधानाम् निध्ययोगात् समूहासंबन्धाद् दीनेष्यर्थिषु लोभवादान् न आददे ॥ श्लेषः ॥ शालिनीवृत्तम् ॥ सौन्दर्यवर्येऽप्यवरोधवर्गे स्थिते विशेषेण स तामियेष । विहाय चूतस्य समस्तमङ्गं पुष्पोद्गमं चुम्बति हि द्विरेफः ॥ ३३ ॥ सौन्दर्येति ॥ स राजा सौन्दर्यवर्षे लावण्यप्रधाने अवरोधवर्ग स्थितेऽपि सति विशेषेण रूपशीलादिव्यवच्छेदिगुणेन तां राशीमियेष । युक्तमेतत् । द्विरेफो भ्रमरः चूतस्याम्रस्य समस्तम शाखाबुधादि विहाय पुष्पोद्गर्म मञ्जरीमकरन्दं चुम्बति आस्वादयति ॥ अर्था- न्तरन्यासः ॥ उपजातिकृतम् ॥ इति रतिमनयानुरुध्यमानो हृदि शरणोत्तममङ्गलं नमस्यन् । व्यसनरहितराजराज्यभारः खमुपचिकाय यशोधनंजयेन ॥ ३४ ॥ इति श्रीधनंजयविरचिते धनंजयाङ्के राघवपाण्डवीयापरनानि विसंधाने काव्ये दशरथपाण्डुराजवर्णनं द्वितीयः सर्गः समाप्तः ॥ इतीति ॥ इत्यमुना प्रकारेण अनया पटाश्या रति सुरतोत्सवम् अनुरुध्यमानः कामय- मानः शरणयोग्यत्वाच्छरणम् उत्तमैः सर्वझैः प्रणीतत्वादुत्तमम् मलं पापं गालयतीति मङ्गलं धर्मम् हृदि नमस्यन् व्यसनै रहितो राजा यत्र तथोक्तो राज्यभारो यस्य स राजा जयेन अरितिरस्करणेन स्वमात्मीयम् यश एव धनं उपचिकाय । वृद्धि नीतवान् ॥ अथवा धनंजयेन कविना स्वं यश उपचिकाय वृद्धि प्रापितवान् ।। पुष्पिताप्रावृत्तम् ॥ इति श्रीदाधीचजातिकुद्दालोपनामकश्रीच्छोटीलालात्मजश्रीषदरीनाथविरचितायां द्विसंधानकाव्यटीकायर्या राजवर्णनो नाम द्वितीयः सर्गः। तृतीयः सर्गः। अथास्य राज्ञः प्रियधर्मपत्नी धर्मोऽस्ति वन्ध्यः किमितीव मत्वा । . रजःकणं तत्र फलाय काले वबन्ध चूताग्रिममञ्जरीव ॥ १ ॥ अथेति ॥ अथ अस्य रामः प्रिया धर्मार्थे पत्नी "किं धर्मो पन्ध्योऽस्ति' इति इव Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/३१&oldid=234476" इत्यस्माद् प्रतिप्राप्तम्