पृष्ठम्:Dvisandhanam kavya.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ सर्गः] द्विसंधानम् । १७ र्थस्य । यथोक्तमर्थोपार्जनमन्तरेण न यथोक्तकामानुष्ठानम्, कामानुष्ठानमन्तरान संतानो- त्पत्तिः. संतानाहते नार्थोपयोगः, अर्थोपयोगेन विना नो धर्मलाभ इति भावः । अ- परार्धे साध्याहार्यत्र । अतएव उ संबोधने, किल आश्चर्ये, किमाक्षेपे । किं पदातयो व्यभिचरन्ति, अपि तु न।एवं किं शत्रवः, किं पुत्राः, किं मित्रसमूहः, किं बान्धवसंघः ॥ आक्षेपालंकारः ॥ भुवस्तलं प्रतपति संभ्रमरविः शशी चरन्स्वयमभिनन्दयत्ययम् । चरैः स्थितः पुरि सचराचरं जगत्परीक्ष्य यः स्म तपति संधिनोति च ॥११॥ भुवेति ॥ रविशशिनौ स्वयं चरन्ती जगत्यतापानन्दहेतू । अयं तु पुरि स्थित एव चारैर्जगमस्थावरं जगत्परीक्ष्य संतापप्रीणने चकारेति सूर्यचन्द्रावतिशेत इत्यतिमयालंकारः। कृषीवलं कृषिभुवि बल्लवं बहिर्वनेचरं चरमटवीष्वयुक्त या। वणिग्जनं पुरि पुरसीनि योगिनं नियोगिनं नृपसुतबन्धुमत्रिषु ॥ १६ ॥ कृषीति ॥ यः क्षेत्रको कर्षर्क, बहिर्गोपालं, वनेषु भिल्लं, पुरि किराटकवेषवन्तं, नग. रसीनि कौलिकादिवेषवन्तं, राजसुतवान्धवसचिवेषु व्यापारिणं गूढदूतं न्ययुङ्ग । समुच्चयः ।। वधूगृहे बधिरकिरातवामनं खरक्षया परमलसंग्रहेण च । प्रयुक्तवान्प्रणिधिमनाकुलं परानबोधि यः प्रतिबुबुधे व नापरैः ॥१७॥ वध्विति ॥ रामागृहे बधिर, किरातं विकलाङ्गम्, कुब्जकम् , आत्मरक्षया रिपुसैन्यप- रिफलनेन च अनाकुलं चरं प्रयुक्तवान् यः परानबोधि, अपश्च न प्रसिबुबुधे ॥ समुच्चयः ॥ अवाहयत्तुरगमवाहितं गज न चाविशद्वनमविगाहितं हितैः । ददर्श यः सपदि न सिद्धतापसं समाययौ न तमवरोधमेककः ॥ १८॥ __ अवाहेति ॥ यः, हितैः परीक्षितान्तःकरणैर्नरैः, अवाहितमनधिरूढम्, तुरगं गर्ज च, नावाड्यन्त्र चालयामास । अविगाहितमव्यालोडितम्, वनं न प्रविवेश । सपदि स- इसा, सिद्धतापस तपस्विवेषं न ददर्श । तं लोकप्रसिद्धम् अन्तःपुरम्, एकक एकाकी सन् , न गतवान् । अन्तःपुररक्षिणीभिवृद्धाभिः सहावरोधमगमत् ॥ समुच्चयः ॥ इदं मया नयमपदिश्य वर्णितं शरं तु यः क्षिपति न यावदाहवे। शरासनं शरमिषुधिं परोऽक्षिपत्परं विदुर्यमनपवर्तकं महः ॥ १९ ॥ इदमिति ॥ इदं पूर्वोक्तं मया कविना नयमाश्रित्य वर्णितम् । अधुना विक्रमो वर्ण्यते- यो राजा यावत् सङ्कामे शरं न क्षिपति, तावत् परः शत्रुः शरासनं धनुः शरं पाणम् इषुधिं भवाम् अक्षिपन्मुक्तवान् । पर केवलं यं राजानम् अनपवर्तक नित्यं महस्तेजो विदुः । नीतिमन्त इति शेषः ॥ विरोधः ॥ Doganced bGoogle

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२७&oldid=234471" इत्यस्माद् प्रतिप्राप्तम्