पृष्ठम्:Dvisandhanam kavya.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ सर्गः] द्विसंधानम् । तविघातम्, विरचिता धर्मनामकस्य वृक्षस्य (येन धनुःकाण्डं निष्पद्यते इति दमयन्ती- न्याख्यायाम्) पीडा यत्र, धर्मेण न्याय्यपथेन पीडा यत्रेति वा।न्याय्येषु मार्गेषु धर्म्यमार्गेषु न्याय्यमार्गणमार्गेषु । सत्यसंधाः सत्यप्रतिज्ञाः अप्रतिहतसंघानाः । सुधियः पण्डिता दक्षाः । यो यादृशो भवति, तस्य कर्मापि तादृग् ॥ उत्कर्ण्य मौर्वीनिनदं नृपाणां तनूलता कण्टकितानुरागात् । उत्सेकतो वीररसैकसारादभूद्विरुदेव समं रिपूणाम् ॥२०॥ उत्कर्येति ॥ उत्सेको गर्व उत्सेचनं च ॥ ज्याचक्ररुद्धं स्थितमङ्गमेव रवेरिवोच्चैः परिवेषभाजः। तेजो जगद्व्याप तु राजकस्य रोद्धं परं ज्योतिरहो न शक्यम् ॥२१॥ ज्याचक्रोति ॥ राजकस्य अङ्गमेव ज्याचक्ररुद्धं सत् स्थितम्, तेजस्तु परिवेषभाजी रवेरिव उचैरत्यर्थे जगद् व्याप । अहो परं ज्योती रोढुं न शक्यम् ॥ घाताय कर्तु द्विषतां प्रवीरैः शरोऽप्रमुक्तान्मनसो रथाच्च । .. प्रागभ्यमित्रोऽजनि पश्चिमोऽपि पश्चान्न शीघ्रःप्रथमोऽपि मन्दः ॥२२॥ .. घातायेति ॥ द्विषतां घाताय कर्व घातं कर्तुम् । विभक्तिप्रतिरूपकम् । प्रवीरै टैः, अग्र- मुक्तात्पूर्वमुक्तात् मनसः, रथाच प्राग शरोऽभ्यमित्रः शत्रुसंमुखोऽजनि । पश्चिमोऽपि शीघ्रः पश्चात् न अजनि । प्रथमोऽपि मन्दः शीघ्रो न ॥ अन्योन्यमुत्पीडयतोः सखीव ज्याधन्वनोर्मध्यमनुप्रविश्य । निवारयन्तीव युगं विदूरं तदायतेषुः पृथगाचकर्ष ॥ २३ ॥ अन्योन्यमिति ॥ आयता दीर्घा घुरन्योन्यं परस्परमुत्पीड्यतोः, ज्याधन्वनोमौवी. चापयोः, मध्यम् अनुप्रविश्य युगं युद्धं विदूरतरं यथा स्यात्तथा निवारयन्ती इव, तद् द्वि- तयं पृथगाचकर्ष ॥ परस्परं वेगितमाप्नुवन्तो न पेतुरुद्भिद्य शरा हयाश्च । तेऽन्योन्यसेनामुभयेऽप्यनाप्य खं श्लाघमाना इव तीक्ष्णभावम् ॥ २४ ॥ · परस्परमिति ॥ ते उभयेऽपि शरा याश्च परस्परमन्योन्यं देगितम् उद्भिद्य वैगितम् आनुवन्तः सन्तः स्वं तीक्ष्णमावं लघमाना इव अन्योन्यसेनाम् अनाप्य अप्राप्य न पेतुः ॥ इयत्तया वक्तुमहं न शक्तः स्यदानिषूणां युधि ये गिरिभ्यः । स्थवीयसोऽप्याशु विमिद्य नागानिबद्धकोपा इव रक्तरक्काः ॥ २१ ॥ इयत्तयेति ॥ ये गिरिभ्यः स्थवीयसः स्थूलसरान् अपि नागान्गजान् आशु विभिद्य मिषद्धकोपा रक्तरक्ता रुधिरलोहिता रुधिरासक्ताश्च इव भवन्ति । तेषाम् इषूणां स्यदान, इयत्तया वक्तुम् अहं न शक्तः ॥ Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१७७&oldid=234647" इत्यस्माद् प्रतिप्राप्तम्