पृष्ठम्:Dvisandhanam kavya.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ सर्गः) द्विसंधानम् । प्रकटयितुं भवालिनीवि विधिलालिपरिधानवस्त्रप्रन्धि यथा स्यालथा विदूरगं यथा तथा ललो अतिक्रान्तवती । हि यतः खिया अन्यसाः प्रियतमवित्रामधनो वनभकटाक्ष- सूचको भवति ॥ सुरमि वितरितुं प्रसूनमेका सकृदधिपेन विपक्षनाम नीता । कितव तव फलं तदस्तु लब्धं प्रियजनयेऽर्पय पुष्पमित्यकुप्यत्॥११॥ सुरभीति ॥ अधिपेन स्वामिना सुरभिप्रसून पुष्पं वितरितुं सकटकवारं विपक्षनाम सपनीसंझा नीता प्रापिता एका कामिनी 'हे कितव, तत् प्रसूनमस्तु तिष्ठतु, त्वं प्रियज. नये प्रियभार्यायै पुष्पमर्पय देहि, मया तव फलं लब्धम्' इति अकुप्यत् ॥ कुचयुगमतुलं कुतोऽस्य भारः किल भवतीति तुलाधिरोपणाय । सह तुलयितुमात्मनोद्यतेव क्षणमपरा व्यलगीरोहदोलाम् ॥ १२ ॥ कुचेति ।। अपरा कामिनी, अस्य कुचयुगस्य कुतः कस्माद् भारो भवति इति हेतो. रात्मना सहावुलमनुपम कुचयुग्मं तुलयितुं तुलाधिरोपणायोद्यतेव क्षणं प्ररोहदोला व्य- लगीदारोह ॥ अवचनमधिशय्य मन्युनान्या पृथगधिपाद्विरचय्य पुष्पशय्याम् । स्मरशरशयनस्थितेव दूना ननु विरहः प्रियगोचरोऽपि दीनः ॥ १३ ॥ अवचनमिति ॥ अन्या कान्ता, मन्युना क्रोधेनाधिपात् स्वामितः पृथक् पुष्पशव्यां विरचय्यावचनं संभोगगोचरचर्चारहितं यथा स्यात्तथाषिशय्य अयित्वा स्मरशरशयन- स्थिता कंदर्पमार्गणशय्यास्थितेव दनामवत् । ननु अहो विरहः प्रियगोचरोऽपि स- न्दीनो भवति ॥ व्रततिषु गहनासु कापि लीनं मृगयितुमीश्वरमाकुलं भ्रमन्ती । करधृतलतिकाबलोपलब्धं तमुदधतेव मनोभवस्य शाखाम् ॥ १४ ॥ व्रतेति ॥ काप्यपला, गहनासु प्रततिषु, लीनमीश्वरं पति मृगयितुमवलोकयितुमा- कुलं यथा स्यात्तथा भ्रमन्ती सती, तमुपलब्धुं करधृतलतिका हस्तधृतवाली सती, मनोभ- वस्य मारस्य शाखामुदधतेवोदृति नीतेव ॥ श्रवसि शिरसि कृत्समुच्चयेऽपि स्मितहसितानुकृतीर्ण्यया क्षिपन्ती । मुकुलमुदितमुद्गमं च सर्वस्वमपि वनस्य परोपतेव हर्तुम् ॥ १५ ॥ श्रवेति॥ परा कामिनी, उच्चयेऽपि चोटनेऽपि स्मितहसितानुकृति स्मितहसितयोस्तुक- तिर्यवेति स्मितानुकारि कृत्स्नं मुकुल कलिकां श्रवसि श्रोत्रे, इसितानुकारि कृत्वम् उदितं निर्गतमुद्रमं शिरसि ईर्ष्णया क्षिपन्ती सती वनस्य सर्वस्वमपि हर्तुमुद्यतेव भाति ।। इति चपलविलासिनीविहारैविलुलितमुद्गतकर्णिकारकोशम् । प्रशमयितुमुपप्लवं वधूभ्यो मुकुलितहस्तमिवावभावरण्यम् ॥ १६ ॥ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१६५&oldid=234633" इत्यस्माद् प्रतिप्राप्तम्