पृष्ठम्:Dvisandhanam kavya.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ सर्गः] द्विसंधानम् । तिदुर्धरस्वरूपमित्येकपदं वा । बीमत्समर्जुनम्, आशंसुः श्लाघ्यमानः भीमो घृकोदरस्तां ध्वजिन्याः पौरस्त्यां गतिमाप ।। तत्पाघे गतधृतिमत्स्यदेशमाढ्यं भुञ्जानोऽनलसहितः सुखं प्रतस्थे। . पञ्चालोचितविषयप्रभुश्च सैन्यं बिभ्राणः सवसुयशोविलासिनीलः ॥ २३ ॥ तत्पार्श्व इति ॥ समात्यमुपशमप्रधान सुखं मुबानोऽनुभवन् नलसहितो नलेन राज्ञा सहितः पश्चालोचितविषयप्रभुः पश्चाले देशे उचिताना विषयाणां प्रभुर्नील एतदाख्यराजः सवसुयशोविलासि वसुना द्रव्येण सहितेन यशसा विलसति तत् सैन्यं बिभ्राणः सन् गत- धूतिमत्स्यदे गमनधैर्यवद्वेगयुते, तत्पाघे सेमापार्श्वे प्रतस्थे॥ भारतीयेतधृति गतं घर- माणे तत्पाद्येऽनलसहितः क्रोधामिव्याप्तः, अनलसेभ्य उद्योगिभ्यो हित आन्य समृद्धं मत्स्यदेशं भुआन उपभुझानो विराटः, सवसुयशोविलासिनीलः वसुना यशसा विला- सिन्या इलया च सहितः, पचालोचितविषयप्रभुः पचालयोचितस्य धनकनकसमृद्धस्य विषयस्य प्रभुः पालको द्रुपदराजश्च ।। तन्मध्यं हरिकुलनायकैरनेकैरामोदस्फुटसितचन्दनोचिताङ्गः। दुर्वृत्तं विजहदसज्जनार्दनोऽसौ भूपार्थक्षतशमनोयतो जगाहे ॥ २४ ॥ दुईत्तमिति ॥ स्फुटसितचन्दनोचिताङ्गः स्फुटसिताय सुप्रीवाय चन्दनाय तमान्ने उचितं रक्षणोचितम् अहं यस्य तादृक् दुर्वृत्तं विजहत् असम्बनार्दनः असतो दुष्टासनान- दयति ताक्, भूपार्थक्षतशमनोद्यतो भूपानाम् अर्थस्य क्षात्रधर्मस्य क्षतस्य नाशस्य शमने उद्यतः क्षात्रधर्मप्रतिपालकोऽसौ रामोऽदः । खर्परशान विसर्गलोपः । तन्मध्यं से- नामध्यम् अनेकैईरिवंशनायकैर्वानरसंघस्वामिभिर्जगाहे ॥ भारतीये-आमोदस्फुटसित- चन्दनोचिताङ्गः आमोदेन स्फुटस्य सितचन्दनस्योचितमहं यस्य, भूपार्थक्षतशमनोद्यतः भुवः पार्थानां च क्षतशमने उद्यतः, जनार्दनो विष्णुः, असद् असमीचीनम् असौ खरे, दुर्धत्तं विजहत् त्यजन् ॥ मदोत्तमाद्रेयबलेभसारे भागेऽपरे सर्पति जाम्बवेऽस्मिन् । द्वीपेऽन्विते राजभिरप्रसधैः ससर्प वेलेव चमूः पयोधेः ॥ २५ ॥ मदोत्तमेति ॥ मदोत्तमायक्लेभसारे मदोत्तभैर्मदप्रधानैराद्रेयः पर्वतोद्भवैर्वलेभैः सैन्य- गजैः सारे अप्रसत्यै राजभिरन्विते अस्मिन् जाम्बवे जाम्बवीयबले अपरे भागे पश्चिमभागे सर्पति सति चमूः । पयोधेवेलेव । ससर्प । भारतीये-मदोत्तमाद्रेयवलेभसारे मदेनोत्तैः क्लिर्माद्रेयषलेमैनकुलसहदेवसैन्यगजैः सारे बले सर्पति सति अप्रसत्यै राजभिरन्विते अ. स्मिञ् जाम्बवे जम्बूवृक्षोपलक्षिते द्वीपे । उपजातिः॥ . एवं नानाक्षत्रियवर्गः पृतनाग्रे सालङ्कान्तं रौप्यमिवैतैः सह सालम् । वेलापातश्वेततरङ्गं जलराशिं तं सारम्भोगाङ्गमवापन्नृपतिश्च ॥ २६ ॥ Dogices o, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१५९&oldid=234627" इत्यस्माद् प्रतिप्राप्तम्