पृष्ठम्:Dvisandhanam kavya.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। शौर्यान्तस्थिति विषमाभयादवोत्थं वैराटं चतुरगकुंजरप्रधानम् । सौमित्र्याहितरति संयदुत्कपीनं गत्वैक्यं जगदिव तबलं चचाल ॥८॥ शौर्येति ॥ शौर्यान्तस्थिति क्षात्रधर्मोररीकृतस्थिति, नारायणमध्यस्थानकम् । विषमा- भयादवोत्थं तीव्रकान्या दवानलतुल्यम्, तीव्रप्रतापियादवोत्पन्नम् । वैराटं वैरगामि, वि- राटराजसंबन्धि । चतुरगकुंजरप्रधान चतुरगामिकोशप्रधानम्, च तुरंगमगजसनाथीकतम् । सौमित्र्याहितरति लक्ष्मणाहितरति, सुमित्रत्वारोपितासक्ति । संयदुत्कपीनं समरोत्कण्ठि- तमर्कटेशम्, रणोत्सुकजनव्याप्तम् । तद् बलमैक्यं गत्वा जगदिव चचाल ।। उत्कीर्णैरिव विधुभिर्मुखैस्तमालपारोहैरिव चिहुरैशां विलासैः। कुर्वद्भिः सर इव सोत्पलं दिगन्तं तद्देव्यः प्रसमचरन्त दन्तिनीभिः ॥९॥ उत्कीर्णैरिति ॥ उत्कीर्णैक्लिखितैविधुभिश्चन्द्ररिव मुखैः, तमालपारोहैरिव चिहुरैः कुटिलकेशपाशैः सर इव दिगन्तं सोत्पलं कुर्वद्भिविलासैः कटाक्षविक्षेपः, उपलक्षितास्त. देव्यस्तेषां राज्ञां देव्यो महिध्यो दन्तिनीभिः करिणीभिः प्रसमचरन्त ॥ उत्कार्तवररुचयोऽपि सौम्यभावा भामिन्यः सहजघनाः कुचोदिताञ्जयः। मेघालीष्विव करिणीषु दिव्यरुच्या लालित्यात्तडित इवाभवन्स्फुरन्त्यः॥१०॥ उत्केति ॥ उत्कार्तस्वररुचयः निस्तकाश्चनकान्तयः, उत्क उत्कट आर्को भयानकः खरो यत्र ताशुचिर्नयनझम्पनकारिप्रकाशो यत्र । सहजघना जघनसहिताः सार्ध जात- मेघाः । कुचोदिताझ्यः कुचार्थमुदितमहं यासां ताः, पृथिवीप्रेरितशरीराः । दिव्यरुच्या मनोहरामरणा: मनोशदीप्तेः । सौम्यमावरमणीयरमणीनां तडितः.करिणीनां मेघाली. उपमानम् ॥ उन्नेतुं तपनवितापमङ्गनानां छन्नाभिर्मणिमयकम्बलैर्वृषीभिः । शोणाभिर्बभुरधिरूढसांध्यरागा गच्छन्त्यस्ततय इवाम्बुदां करिण्यः ॥ ११ ॥ उमेतुमिति ॥ अनानां करिण्यस्तपनवितापं सूर्यातपमुन्नेतुम्, मणिमयकम्बलैश्छ- नाभिः शोमामी रक्ताभिवृषीभिः करिकम्बलैरुपलक्षिता गच्छन्त्यः सत्यः । अधिरूढसां- ध्यरागाः स्वीकृतसंध्याभवरागा अम्बुदा मेघानां सतय इव । षभुः ॥ मायूरं गतमुत नौप्लवं गतानां वाहानां पथि परतोऽधिरोपिताभिः । बालाभिः कुचभुजपीडिता युवानस्तद्भूयः स्थपुटदरीषु यानमीषुः ॥ १२ ॥ मायूरमिति ॥ मायूरमुयनात्मकम् उताथवा नौप्लवं जलतरणात्मकं गतं गमनं गतानां प्राप्तानां वाहानामश्वानां परतः पृष्ठेऽधिरोपिताभिर्बालाभिस्तरुणीभिः पथि कुचभुजपीडिताः। पतनभीएकामिन्यालिाने कुचभुजाभ्यां पीडा । युवानो भूयो वारंवारं स्थपुटदरीषु सरल- मार्गेषु तद् यानमीषुः॥ Dosted o, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१५६&oldid=234624" इत्यस्माद् प्रतिप्राप्तम्