पृष्ठम्:Dvisandhanam kavya.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। लोकप्रसिद्धम्, दूरक्षः दुष्टानि रक्षांसि यत्र तदराते रावणस्य स्थानममियातः ॥ भारतीये- वै निश्चये देवर्थे पुरुषार्थ, स्थित्या निरूढं दौत्य प्रजिहानः, दूरक्षः दुःखेन रक्षितुं शक्यः श्रीशैलस्तन्नामा दूतः अरातेर्जरासंधस्य ॥ सर्गेऽस्मिन्मत्तमयूरं छन्दः॥ दुर्ग राष्ट्र तीर्थमरण्यं ब्रजमायञ्जानशत्रोचारमबुद्धः खयमन्यैः । सस्वीकुर्वन्कृत्यमकृत्यं व्युपजापैः स्थाने स्थानं स्वप्नमपीच्छन्प्रयतोऽभूत्॥२॥ दुर्गमिति ॥ अन्यैः स्वयमबुद्धो ज्ञात एव शत्रोश्चारं गति जानन्, व्युपजापैः सामादि- भिरकृत्यमभेद्यममात्यादिकम्, कृत्यं भेद्यं स्वीकुर्वनुररीकुर्वन् । [भेदं स्वीकारयन्निति भावः।] स्थाने निरुपद्रवे देशे स्थान स्थिति स्वप्नं निद्रामपीच्छन् प्रयतोऽभूत् ॥ अध्वान्तेऽसौ चेतति वैरं प्रतिबध्नज्ञाता नीतेः संप्रतिमातामहतापम् । कुर्वन्धैर्येणावजितं तद्रिपुजातं साम्नायोज्य स्वामिनि सर्वसहमेयः ॥ ३ ॥ अध्वान्त इति ॥ नीतेातासौ हनूमानध्वान्ते मार्गमध्ये वैरं गर्भिण्यपि में माता निर्द- येनानेन महेन्द्रेण स्वमन्दिरानिष्कारितेति वैरं चेतसि प्रतिबनन् मातामहतापमानासुन्द- रीतातस्य महेन्द्राचलेन्द्रस्य पश्चात्तापम्, संप्रति तत्कालं धैर्येणावजितं तद्रिपुजातं शत्रु- समूह साम्रा आयोज्य स्वामिनि रामे सर्वसहमानासहिष्णुम्, कुर्वन् सत्रैयो गतवान् । भारतीये-संप्रतिमाता वर्तमानकालपरिच्छेदकोऽसौ श्रीशैलो दूतः । अध्वान्ते निर्मले चेतसि, महता धैर्येण । आपम् प्रचुरं सजलप्रदेशम् । ऐयः॥ अव्यालोलङ्कामयमानो यश ओजो वाञ्छन्नुद्यन्नीतिविदार्यप्रियवेषः । प्रेप्सुः शालं राजगृहं तं समतीतश्चक्रे लङ्कामाकुलवृत्तिं परमाजौ ॥ ४ ॥ ___ अव्यालोलमिति ॥ अन्यालोऽदुष्टः, लङ्कां तनामनगरीमयमानो गच्छन् सन्, उद्यनीति उद्यन्ती नीतियंत्र तादृक् यथा स्यात्तथा यश ओजः क्षात्रतेजश्च वाञ्छन् सन्, प्रियवेषः सतामाकारधारी, तं राजगृह राजमन्दिरं प्रेप्सुः प्राप्तुमिच्छुः, शालं प्राकार विदार्य समतीतः समतिक्रान्तः सन् हनुमान् आजौ संगरे परमतिशयेन लामाकुलवृत्ति चक्रे । भारतीये-अव्यालोलं स्थिरतरम् , यशः कामयमानः, ओजो वाञ्छन् , उद्य. नीतिविद् उद्यती नीति वेत्तिस, आर्यप्रियवेष आर्याणां प्रियो वेषो यस्य ताक,राज- गृह तमामानं जलाशयं समतीतः संप्राप्तः स दूतः शालं मत्स्यविशेषम् आजौ समरभूमी परं केवलं प्रेप्सुः तं शालं कामाकुलवृत्तिमभिलाषाकुलितचित्तम् अलमत्यर्थे चक्रे । यद्वा तं जलाशयं समतीतः राजगृहं राजमन्दिरम् उद्यन् गच्छन् शालं प्राकारं प्रेप्सुः परं शत्रुम् आजौ समरे कामाकुलवृत्तिमलं चक्रे ॥ दारुणाकारोऽयमुताहो रथकट्या कि वाश्वीयं वारिधिवेला परिखा श्वित् । सौधा जालोल्लासितधूमाः किमु मेधाः श्वेता नीलान्कि स वमन्तीति शश? ५ दार्विति ॥ स हनूमान् दूतश्च 'अहो आश्चर्ये अयं दारुणाकारः, उत रथकट्या रथस- Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१४४&oldid=234615" इत्यस्माद् प्रतिप्राप्तम्