पृष्ठम्:Dvisandhanam kavya.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ काव्यमाला । कस्तूरीपरिमलमप्यनुभवनसौ गन्धवहो वायुः । वनेचर इव । तं लक्ष्मणं कृष्णं च स- भयं यथा त्यासथाभिययौ ।। उत्खातरोपणमिदं निजमेव पुंसां न्याय्यं व्रतं तदनुपालय पालनीयम् । इत्यग्रजस्य वचनं प्रतिमान्य तुष्टस्तुष्टाव सिद्धपदपतिमसावुपेन्द्रः ॥४७॥ उत्खातेति ॥ निजं कुलाचारप्राप्तम्, न्याय्यं न्यायादनपेतं पुंसां नराणां पालनीयमत्या- ज्यमुत्सातरोपणमुत्खातानां रोपणमिदं तत् व्रतमनुपालयेत्यप्रजस्य रामस्य पलभद्रस्य वा' वचनं प्रतिमान्य तुष्टः प्रसन्न उपेन्द्रो लक्ष्मणः कृष्णश्च सिद्धपदपङ्गिं मुक्तश्रेणी तुष्टाव । वसन्ततिलकावृत्तम् ॥ योऽधःस्थितोऽशोकतरोरमासीत्तदृक्षमूलीयमहाव्रतस्य । फलं यतिभ्यः प्रथयन्निवाईन्वन्द्यः सुराणां स पुनः पुनातु ॥ १८ ॥ योऽध इति ॥ यस्तक्षमूलीयमहाव्रतस्याशोकयक्षमूलार्थस्य महावतस्य फलं य- तिभ्यः प्रथयन् कथयन् इवाशोकतरोरधःस्थितः सनभासीत् । सुराणां देवानां वन्यो- ऽहन् पुनः पुनः पुनातु ॥ उपजातिः ।। बोधाम्भोधौ यः समाधीन्दुवृद्धे सिद्धे रुच्यं कर्तुमिच्छन्निवद्धिम् । निन्ये मान्यं साधु रत्नत्रयं नः सिद्धः सिद्धां कार्यसिद्धिं करोतु ॥ १९॥ बोधेति ॥ यः समाधीन्दुयुद्धे समाधिनेन्द्रियगोचरेण क्रोधमानमायालक्षणैर्वा जनित- कालुष्यपरित्यागाचेतसः प्रसन्नतयैवेन्दुना चन्द्रेण वृद्धे बोधाम्भोधौ बोधेऽवगमविगम- सजन्मनि मानातिशये एव समुद्रे सिद्धेर्मुक्तिलक्षणायाः रुच्यं भूषणं कर्तुमिच्छन्निव मान्य माननीयं रमत्रयं सम्यग्दर्शनझानचारित्रस्वभावं साधु यथा स्यात्तथा ऋद्धिं वृद्धिं निन्ये, स सिद्धो नोऽस्माकं सिद्धां पूर्वापरप्रमाणबाधापरित्यागायुक्तियुक्तचेतसां पुंसां प्रतीतिशिखर. मारूढाम् कार्यसिद्धि कार्यस्य मोक्षलक्षणस्य सिद्धि प्राप्ति शप्ति वा करोतु ॥ शालिनी ॥ तथाचार्य चर्यापरिणतमुपाध्यायमखिल- श्रुतोपाध्यायं तं बहुविधतपःसाधनपरम् । स्तुवे साधु साधु स्थितिजननिरोधव्यतिकरं सदा पश्यत्पाहुत्रितयमिदमेव त्रिपुरुषम् ॥ ५० ॥ तथेति ॥ तथा अर्हसिद्धयोः स्तवनप्रकारेण, चर्यापरिणतं चर्यामिनिदर्शनचरण- तपोवीर्याचाररूपाभिः पश्चभिः परिणतमात्मस्वरूपोपलब्धिलब्धमाचार्य सूरिम्, तथा- अखिलश्रुतोपाध्यायं समस्तागमोपदेष्टारम्, उपाध्यायं पाठकम्,तथा-बहुविधतपःसाधनपरं बहुविधं बाह्याभ्यन्तरप्रकारं यत् तपश्च, तत्साधनं हेयं हेयतया, उपादेयमुपादेयतया, विवेचकं ज्ञानं च तत् परं परमोत्कर्षे प्राप्तं यस्य तम्, साधु संसारसंसरणकारणसरागपरि- णामपहिर्मुखतयान्तर्मुखाकारतयात्मानमवलोकमानं तद्रूपतया परिणमन्तं बहिर्भवेषु सं. Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१४२&oldid=234602" इत्यस्माद् प्रतिप्राप्तम्