पृष्ठम्:Dvisandhanam kavya.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ सर्गः द्विसंधानम् । ११९ सानारब्धे शात्रवे कि चरैर्वा मेद्या दूतैरेव तस्योपजाप्याः। मिन्नं राज्यं सुप्रवेशं मणि वा वनोत्कीर्ण निर्विशेतिक न तन्तुः॥१९॥ साम्नेति ॥ साम्रा शात्रवे शत्रुसमूहे आरब्धे चरैः किम्, तस्य शत्रोरुपजाप्याः करें- जपाः साम्रा भेद्याश्चत् दतैरेव किम् । भिग्नं राज्यं । वनोत्कीर्णे मणि वा इव । सुप्रवेश यथा स्यात्तथा तन्तुः किं न निर्विशेत् । विशेदेव ॥ नानामार्गः पांसुलो दीर्घसूत्रः शत्रुः पन्थाश्चाप्तगत्यागमेन । यत्तत्क्षेपं जायते तत्कदा वा गम्यो नीचैश्चक्षुरप्रक्रमेण ॥ २० ॥ नानेति ॥ नानामार्गः समृद्धासमृद्धप्रायः, पांसुलः पापभूयिष्ठः, दीर्घसूत्रो भाविकार्य- फलसंपदन्वेषी शत्रुर्यदा आप्तगत्यागमेन आप्तानामवश्वकानां यातायातेन, तत्क्षेपं तेषाम- वश्चकाप्तानां क्षेपस्तिरस्क्रियाविशेषो यत्र कर्मणि यथा स्यात्तथा जायते, (तर्हि) कदा कदापि अविचारित एव नीचैायमार्गहीनैः क्षुरप्रक्रमेण बाणश्रेण्या, नीचैश्चक्षुरप्रक्रमेण नीचैश्च- क्षुषां तेषामाप्तानाम् अप्रक्रमेण गम्यो वैरिभिर्ययो भवति । नानामार्गः प्राअलाप्राअल- प्रायादिबहुप्रकारः, पांसुलो रेणूत्करसहितः, दीर्घसूत्रो दूरतरः पन्था अपि आप्तगत्यागमेन सघणयातायातेन तत्क्षेपं ततस्तस्माद्देशारक्षेपः क्षेपणीयानां कण्टकादीनां दूरीकरणं यत्र कर्मणि यथा स्यात्तथा जायते तहिं कदाप्यविचारेणैव नीचैश्चक्षुरप्रक्रमेण अधोनयनव्यापा- रमन्तरेणैव गभ्यः । कण्टकादिमति तु नयनव्यापारमन्तरा पीडा स्यादिति ॥ अप्यज्ञात्वारावणावार्यशक्ति के मे तन्त्रावापयोश्चेत्यमत्वा ।। नो स्थातव्यं देशकालानपेक्षं शय्योत्यायं धावतां कार्यसिद्धिः ॥२१॥ अपीति ॥ रावणावार्यशक्ति रावणस्याप्रतिषेध्यशक्तिमप्यज्ञात्वा, मे मम तलावापयोः तत्रे स्वप्रकृत्युत्पत्तिविधानलक्षणे आवापे परशक्तीनामात्मनि विषयेऽध्यारोपलक्षणे चापि के सन्ति इति अमत्वा देशकालानपेक्षं देशकालावनपेक्ष्य नो स्थातव्यम् । शय्योत्याय शय्यात उत्थाय धावतां नराणां कार्यसिद्धिर्भवति॥भारतीये-- आर्य, मणौ अपि अरौ शत्रौ शक्तिम् ॥ इत्याकूतं तस्य भीमोहितस्य ज्ञात्वालापैरञ्जनानन्दनोऽसौ । इत्थंकारं पथ्यमर्थ जगाद न्याय्यं नोपेचिक्षिषन्ते हि सन्तः ॥ २२ ॥ इतीति ॥ असौ अअनानन्दनो हनूमान् भीमोहितस्य भिया मोहितस्य भीममूहितं य- स्येति वा तस्य ऋक्षराजस्य इति आकूतमाशयम् आलापैत्विा इत्थंकारमित्थं वक्ष्यमाण- रीत्या पथ्यं न्यायानपेतम् अर्थ जगाद । हि यतः सन्तः न्याय्यं न उपेचिक्षिषन्त उपेक्षि- तुमिच्छन्ति।भारतीये-रअनानन्दनोरञ्जनया चित्ताहादनोपायलक्षणया नन्दयति ताहक भीमो वृकोदरो हितस्याव्यभिचारिणस्तस्य युधिष्ठिरस्य । . न्यूना वाणी नोपकुर्याजडानामुन्मूढानां चाधिकोद्वेजनाय । न स्तोकेयं तावकी नातिरिक्ता वस्तूपात्तान्वेति लावण्ययुक्तिम् ॥ २३ ॥ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१२९&oldid=234589" इत्यस्माद् प्रतिप्राप्तम्