पृष्ठम्:Dvisandhanam kavya.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। पभाषे ॥ हि यतः जात्यः सुभृत्यः पत्यो स्वामिविषये क्षिपामाक्षेपं न क्षमते ॥ भारतीये- भुवने जगति, शासनहारिणा लेखवाहिना, पुरुषोत्तमेन तमामकजरासंधतेन ॥ औ- पच्छन्दसिक वृत्तम् ॥ त्वमिहात्थ यथा तथा स नो चेत्सुभटः प्राणपरिव्यये सहिष्णुः । किमिहोत्सहतेऽधिपो ममाहुनिनशूरेषु हि विप्रियं प्रियं वा ॥ ४२ ॥ त्वमिहेति ॥ त्वम् इह स्वभवने यथा तथा यदृच्छया आत्य ब्रवीषि, चेत् यदि सम- स्वामी, सुभटः, प्राणपरिव्यये प्राणत्यागे, सहिष्णुश्च न स्यात् , इह युद्धे मम अधिपः किम् उत्सहते।हि यतः निजशूरेषु आत्मना धीरेषु विपियं प्रियं वा आहुर्वदन्ति सूरयः ।। यदेष राज्ञः प्रथमं परिग्रहस्तदाहवेऽन्येने हतो हतैरपि । समापतन्तं मृगयुर्मदोद्धतं न राजवध्यं हि शृणाति शूकरम् ॥ ४३ ॥ यदेषेति ॥ यत् यस्मात् एष रावणो नारायणश्च राज्ञः परिप्रहो भोग्यः, तत्तस्मात्का- रणात् आइये युद्धे हतैः पीडितैरपि अन्यैः शत्रुभिर्न इतो मारितः । हि यतः मृगयुः पाप- द्धिकः समापतन्तं संमुखमागच्छन्तं मदोद्धतं मदोत्कटम् अपि राजवध्यं शुकरं न शृणा- ति हिनस्ति ॥ वंशस्थं वृतम् ॥ • ऊढवान्यदपि गण्डशैलकं तन्न कारणमुदारमुन्नतेः । भूरिभारवहन क्रमेलकः श्लाध्यते युधि वधं तु सिन्धुरः ।। ४४ ॥ उडेति ॥ गण्डशैलकं गिरिच्युतस्थूलोपलसम्हं यदपि उढवान् आरूढवान्, तत् उ- दारम् उन्नतेः कारणं न । क्रमेलक उष्ट्रो भूरिभारवहनं कर्तुं श्लाध्यते, सिन्धुरो गजस्तु युधि वधं कर्तुं श्लाघ्यते ॥ रथोद्धता वृत्तम् ॥ वरमिह ततः सारामेया क्रियेत विधेयता नतु लघुजरा संधेयास्मिन्प्रतापिनि वक्रता । क्वचिदपि न वः स्वामी साहायकं प्रति नाथति सुपथगमनप्रारम्भाय प्रभोरयमुद्यमः ॥ ४५॥ वरमिति ॥ ततः तस्मात्कारणात् या इह रामे विधेयता प्राअलत्वम्, क्रियेत विधी- येत् सा वरम् । प्रतापिनि अस्मिन् रामे लघुजरा लध्वी जरा यस्यास्तारक नश्वरी व- कता कुटिलता तु न संघया संधातव्या । स्वामी क्वचिदपि [विषये] वो युष्माकं साहा. यके प्रति न नाथति याचते । 'नाथते' इति पाठे तु साहायकं प्रति साहायकं लक्षीकृत्य वः युष्माकं नाथते यूयं सहाया भूयास्तां इत्याशास्ते । “आशिषि नाथः' इति सूत्रेण कर्मणि षष्ठी । प्रभोः अयम् उद्यमः सुपथगमनप्रारम्भाय न्यायमार्गानुसरणप्रारम्भाय, अस्ति । भारतीये-या सारा अमेया विधेयता अस्मिन् जरासंधे लघु शीघ्रं विधीयेत, सा वरम् । वक्रता नासावस्ति । वो युष्माकं स्वामी साहायकं प्रति क्वचिदपि न नाथते । नाथत एव । सुपथगमनप्रारम्भाय अमायानुसरणप्रारम्भाय ॥ हरिणीवृत्तम् ॥ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१२४&oldid=234584" इत्यस्माद् प्रतिप्राप्तम्