पृष्ठम्:Dvisandhanam kavya.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। तज्ञानस्य, सत्त्वस्य अन्तरगतेजसः, पलस्य सैन्यस्य, भाग्यस्य दैवस्य, योग्यतां सामग्री प्र. कृतिरागं प्रकृतीनां स्वाम्यमात्यादिसप्तप्रकृतीनो रागं मेहं च सर्वतः सामस्त्येन न चिन्त- यति ॥ अयं यातृयेयसमये गन्तुगम्यकाले विनश्यति ॥ इत्युपायमविचार्य तवार्यः केवलं बलवतीरितकोपः। विश्रुतः समरणोद्यमचेता मामृजुप्रकृतिकः प्रतिभाति ॥ ३२ ॥ इत्युपैति ॥ तव लक्ष्मणस्य अर्यो रामः इति पूर्वोक्तम् उपायम् अविचार्य अबुद्धा ब. लवति प्रबले केवलम् ईरितकोपः प्रेरितकोपः, विश्रुतो विख्यातः, समरणोद्यमचेताः समं युगपद् रणस्योद्यमे चेतो यस्य ताक्, मां प्रति ऋजुप्रकृतिकः सरलस्वभावो भाति ॥ भारतीये-बलवति बलभद्रयुते कृष्णे, ईरितकोपः । विश्रुतः विगतं श्रुतं यस्य हेयोपादे- यज्ञानविकलः, स जरासंधो मरणोद्यमचेता मरणस्योद्यमे चेतो यस्य इति मा प्रतिभाति । दृष्टवान्न स दशास्यतेजसो भूभृतः खलु निरुन्धती दिशः। तिग्मतां यदुदयानुबन्धिनस्तव्यवस्यति वृथा तवाधिपः ॥ ३३ ॥ दृष्टेति ॥ यत् यस्मात्कारणात्, स रामस्तवाधिपो भूभृतः पृथिवीपोषकस्य, उद्यानु- बन्धिन उदयमनुषधातीत्येवंशीलस्य, दशास्यतेजसो रावणप्रतापस्य, दिशो निरुन्धतीम्- तिग्मतां तीक्ष्णतां न दृष्टवान् । तत् तस्मात्कारणात् वृथा व्यवस्थति उत्सइते ॥ भार- तीये-सः यददयानपन्धिनो यदना यादवाना दयामनुवनातीत्येवंशीलस्यास्य भूभृतो ना, रायणस्य तेजसो दश दिशो निरुन्धती तिग्मताम् ॥ अन्तकोऽपि वरुणोऽपि कुबेरो वासवोऽपि स यमेव भयातः। पश्यति प्रकुपितं प्रहरन्तं स्वप्नदर्शनकृपाणतलेषु ॥ ३४ ॥ अन्तेति ॥ स लोकप्रसिद्धोऽन्तको वरुणः कुवेर इन्द्रोऽपि प्रकुपितं प्रहरन्तं यमेव स्वप्नदर्शनकृपाणतलेषु स्वप्रेषु खगतलेषु च भयातः सन् पश्यति ॥ योऽन्यमर्यमणमप्यतिक्रमप्रक्रमं न सहते प्रतापिनम् । नागमन्तमनयन्महोद्धति यो जगन्नयबलेन सायते ॥ ३५ ॥ योऽन्यमिति ।। योऽन्यं प्रतापिनं सप्रभावम् अतिक्रमप्रक्रमम् अतिक्रम प्रक्रामति अतिक्रमस्य प्रक्रमो यस्य तम् अर्यमणमपि न सहते। तथायस्तं प्रसिद्धम् आगमं राजविद्या महोद्धति परमोत्कर्ष न अनयत्, तथा यो जगत् नयषलेन नीतिसामर्थन न तायते पाल• यति || भारतीये-प्रतापिनं धर्मकरम्, यो महोद्धर्ति गर्विष्ठं नागं कुवलयापीडगजं का- लियफणीन्द्रं च अन्तं नाशम् अनयत् । नयबलेन जगद् यस्तायते ॥ यः पूतनामादरमुक्तवृत्ति घोराञ्चलामाकृतिदारुणां ताम् । बालोऽप्यपीडत्कुपितोऽरिमूर्ति स्पर्द्धच्छया वः किमनेन सार्धम् ॥३६॥ यः पूतेति ॥ पूतनामा पवित्रनामा यो बालोऽपि कुपितः सन् दरमुक्तवृत्तिं दरेण भयेन Digitizeds, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१२२&oldid=234582" इत्यस्माद् प्रतिप्राप्तम्