पृष्ठम्:Dvisandhanam kavya.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ सर्गः] द्विसंधानम् । तथा विराधितं वैरिभीमहानियमोद्यतम् । उद्युक्त्याश्वासयन्ख्यातस्तं कौरव्यंशुभावहः ॥ २ ॥ पृथ्व्याः पाताललङ्कान्तः श्रीगृहं प्राप्य भूषणम् । सीताचिन्ताकुलः कार्य दुःखमालोचयन्स्थितः ॥ ३ ॥ अज्ञातचरितं शत्रु श्रीवधूहरणोद्यतम् । विरित्सन्विधुना धौते सौधे शीतेऽप्यतप्यत ॥ ४ ॥ (चतुर्भिः कुलकम्) तस्मिन्नित्यादि ॥ तस्मिन् काले सीताहरणसमये, जरासंधो जरया वार्धक्येन असंधा असंवन्धो यस्य सः, अघभिया पापभयेन युतः, दूरतः चित्तस्य मनोगतं पुरुषोत्तम ल- श्मणनामानम् अनुज कनिष्ठभातरम् पश्यन्, वैरिभीमहानियमोद्यतं वैरिभ्यां खरदूष- णाभ्यां मिया भये सति महानियमे वीरवधपर्यन्तं सक्चन्दनादि न उपभोक्ष्ये' इत्याकारके अते उयतं तं विराधितं खरदूषणनिर्घाटितं चन्द्रोदरपुत्र तथा लक्ष्मणवत् उद्युक्त्या महा- विचारणया आश्वासयन्, को क्षितौ ख्यातः, रव्यंशुभावहः सूर्यकरकान्तिधारी भास्वति किरणसत्ता हन्ति स वा, सीताचिन्ताकुलो जानकीहरणचिन्तया व्याकुलः सन् प्रथव्याः भूषणं पाताललतान्तः पातालललामध्ये श्रीगृहं विलासमन्दिरं प्राप्य दुःखं, यथा स्यात्तथा आलोचयन् अन्तर्मुखाकारवृत्त्या व्यालोकमानः सन् स्थितो रामोऽज्ञातचरितमविज्ञात- चेष्टं, श्रीवधूहरणोद्यतं जानकीहरणोद्यम, शत्रु रावणाभिध विरित्सन् संहर्तुमिच्छन् विधुना चन्द्रेण धौते सुधीकृते शीते शीतलेऽपि अतप्यत ॥ भारतीये-तस्मिन्काले शरत्समये, वैरामोधभिया वैरण अमोघया भिया युतः, चित्तस्थमनुज मनोगतमनुष्यं, पुरुषोत्तम नारा- यणं, दूरतः दूरस्थं पश्यन् ,वैरि-भीम-हानि-यमोयतं वैरिभूत-भीमसेनप्राणत्यागे प्रतोद्यमपरं विराधितं पाण्डवेभ्यो द्रुह्यन्त, ते कौरव्यं दुर्योधनम्, उद्युक्त्या उच्चविचारणेन आश्वास- यन्, शुभावहः शुभमावहति शुभं न वहति वा, पृथ्व्या भूमेः पाता, कान्तः कमनीयः, सीताचिन्ताकुल: भूमिस्थितिचिन्ताकुलः सन्, आललं मनोहर, भूषणं श्रीगृहं लक्ष्मीरूपगृह प्राप्य कार्यम् आलोचयन् दुःखं यथा स्यात्तथा स्थितः, जरासंघो तन्नामा नारायणप्रति- कूलः । श्रीवधूहरणोयतं लक्ष्मीललनापहारोद्यतम् । विधुना कपूरेण ॥ श्लेषः । सर्गेऽस्मि- अनुष्टुप्छन्दः ॥ सत्यग्रेसरसीतापहारिण्येषेत्यलोकयत् । यां यां तया तयारत्या दूनः परमकाष्ठया ॥५॥ सत्येति ॥ एषा सत्यग्रेसरसीतापहारिणी सतीनां पतिव्रतानामप्रेसरायाः सीताया अपहा. रिणी, इति प्रकारेण यां यामलोकयद् दृष्टवान् तया तया परमकाष्ठया अतिशयितया अ- रत्या रामो दूनः ॥ भारतीये-सती मनोहारिणी, तापहारिणी. एषा सरसी अग्रे वर्तते इति Digiced by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१०७&oldid=234566" इत्यस्माद् प्रतिप्राप्तम्