पृष्ठम्:Dvisandhanam kavya.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ सर्गः] द्विसंधानम्। मुतेन स्वेदोद्गमेनोपलक्षितो मनोजः कंदर्पो यास तामिवधूमिः तमालपत्रः प्रयुक्तन कु- सुमाञ्जलिना सिक्ता मूर्तिर्यस्य सः, रावणः, युधिष्ठिरश्च, अत्रनुताधिकमनोजवधूतमाल. माल्येन न प्रसनशीलभावेनाधिकेन मनोजवेन धूतानि मालमाल्यानि येन तेन, तेन इन्द्र- जिता नारायणेन च सहितः सन् स्वगृहं स्वनिवासयोग्यगृह विवेश ॥ वसन्ततिलका ॥ सुसहायतया सुसहायतया मधुरं मधुरञ्जितयाजितया । शमितः शमितः सहितः सहितः प्रतिवासरवासरतिं प्रययौ ।। ५३ ।। सुसहायेति ॥ सुसहायतया शोभना सहायता रक्षकता यस्यां तया, मधुरमत्यन्तपे- शलं यथा स्यात्तथा मधुरञ्जितया मधुना वसन्तेन मद्येन वा रतिया आहादितया, अजि- तया अपराजितया सुसहायतया शोभनेन मित्रसमूहेन सहितः संयुतः, शं कल्याणमितः प्राप्तः, शमितः शान्तचित्तः, सहितः हितेन संयुतः, रावणः युधिष्ठिरश्च प्रतिवासस्वासरति प्रतिदिनं वासे रतिं प्रीति प्रययौ । तोटकवृत्तम् ॥ तां श्रीवर्धू चिन्तयतान्यभोग्यां तेन स्वसाकर्तुमपायमानाम् । न शीतमुष्णं न मतं सुखाय खावस्थयातप्यत केवलं सः ॥ ५४॥ . तामिति ॥ तां लोकविख्याताम्, अन्यभोग्यां राघवमोग्याम् , अपायमानां स्वसंनि- धितोऽपगच्छन्तीम्, श्रीवर्धू जानकी स्वसाकर्तु वाधीनीकर्तु चिन्तयता चिन्ताकुलेन तेन रावणेन सुखाय, शीतं श्रीगन्धकमलकपुरादिवस्तु न मतं नेष्टम् , उष्णं कस्तूरिकादि न मतम् । केवलं स रावणः स्वावस्थया अतप्यत || भारतीये--अन्यो दुर्योधनः श्रीवधू राज्यलक्ष्मीरेव वधूः, तेन युधिष्ठिरेण ॥ श्लेषः ॥ उपजातिः ॥ त्रेपे नृपाणां समवस्थयोचैः सेहे न दुर्योधनकामबाधाम् । बालाङ्गनापाङ्गकृतापहासं रहस्यसौभाग्यमलं निनिन्द ॥ ५५॥ त्रैप इति ॥ रावणः, नृपाणां राज्ञां समवस्थया उच्चैरतिशयेन त्रेपे, तथा दुर्योधनकाम- बाधां दुःखेन योद्धुं शक्यस्य कंदर्पस्य पीडां न सेहे । रहसि एकान्ते बालानापाङ्गकृता- पहास बालानाभिर्मुग्धाङ्गनाभिः अपाङ्गेन कृतोऽपहासो यस्य तत् असौभाग्यमलं दौ- भाग्यरजः निनिन्द ॥ भारतीये-असौ युधिष्ठिरः रहसि दुर्योधनकामवाधां गान्धारीत. नयामिलाषखेदम् । वालाङ्गनापाकृतापहासं बालैः शिशुभिरहनाभिः कान्ताभिः अ- पाङ्ग निन्द्यं यथा भवति तथा कृतोऽपहासो यस्येत्येवं यथा स्यात्तथा भाग्यम् अलमति- शयेन ॥श्लेषः ॥ न गुणैर्वधूभिरमितो रमितो न विलेपनं निजगृहे जगृहे । विभवेषु नो वशमितः शमितः स गतो यतित्वमुदितो मुदितः ॥१६॥ नेति ॥ गुणैः शौण्डौदार्यादिगुणैः अमितोऽगाधः, राजा वधूभिर्न रमितः क्रीडितः । तथा निजगृहे स्वमन्दिरे विलेपनं चन्दनादिना न जगहे । विभवेषु वश न इतः । - Doguiced by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१०५&oldid=234564" इत्यस्माद् प्रतिप्राप्तम्