पृष्ठम्:Dvisandhanam kavya.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ सर्गः] द्विसंधानम् । ९३ आकृष्येति ॥ काचित् नवोढा वरिना बरेण विधुतं एहीतं इस्तं आकृष्य मोच- यित्वा सहसा शीघ्रं अभ्ययासीत् । अन्या प्रोषितभर्तका प्रियानुबद्धं पटं हित्वा त्यक्त्या आलिखन्ती सती अगमत् ॥ उपजातिः ।। उन्मील्य रूपं सह सामि ताभिस्तत्तूलिकाभिः सहसा मिताभिः । वर्णोत्करैश्चित्रकरः सयातिक्रान्तोऽखिलश्चित्रकरः स याति ॥ ४४ ॥ उन्मील्येति ॥ चित्रकर आश्चर्यकृत् स्मयातिक्रान्तो गर्वपर्वताधिरूढः, अखिलः स. मस्तः चित्रकरश्चित्रशिल्पकरः, मिताभिः स्तोकाभिः तूलिकाभिश्चित्रलेखनिकाभिर्वर्णो- कहिङ्गलहरितालिकादिभिः सामि अर्ध रूपम् उन्मील्य ताभिर्लेखनिकाभिः सहैव याति स्म । अत्र कौतुकरसरसिकतया विमनस्कत्वमभिहितम् ॥ इन्द्रवत्रा ॥ वक्रोक्तिमुत्प्रेक्षणमङ्गवन्धं श्लेषं सरन्कृत्यबलातिमूढः । द्विसंधिचिन्ताकुलितो विषण्णः कविर्वियोगीष जनोऽभ्यसर्पत् ॥४५॥ पक्रोक्तीति ॥ वक्रोक्तिम् उत्प्रेक्षणमुत्प्रेक्षाम् अलंकारम् , अङ्गबन्धं पनादिवन्धम् , श्लेषं शब्द श्लेषमर्थश्लेषं चालंकारं स्मरन्, कृत्यबलातिमूढः कार्यसामर्थ्यानभिज्ञः, द्विसंधि- चिन्ताकुलितोद्वयोः कथयोः पदयोर्वा संधेः संधानस्य चिन्तया आकुलितः, अतएव, विषण्णो विमनस्कः कविर्जनः । वक्रोक्तिं कुटिलवचनम् , उत्प्रेक्षणं रमणीरमणीयकटाक्षम् , अङ्गबन्धं चतुःषष्टिशरीरबन्धम् ऋविपरीतवृत्तदण्डकप्रभृतिकरणाख्यम् श्लेषमालिङ्गनं स्मरन् कृती प्रतिज्ञावान् अबलातिमूढः अनभिज्ञभार्यः द्विसंधिचिन्ताकुलितः द्वयोः स्वस्य भार्यायाश्च संधैः संधानस्य मेलनस्य चिन्तया आकुलितः विषण्णः वियोगी विप्रयोगी इव । अभ्यसर्पत् ॥ श्लेषः ॥ उपजातिः ॥ शालस्य हर्यस्य च गोपुरस्य पुरस्य शृङ्गेष्वतिरञ्जनेन । जनेन दृष्टयै निचितेन पूर्वापूर्वाधिरूढासुमतां छलेन ॥ ४६ ॥ शालस्येति ॥ दृष्टथै राज्ञो दर्शनाय पुरस्य नगरसंबन्धिनः शालस्य प्राकारस्य, हर्म्यस्य प्रासादस्य, शृङ्गेषु शिखरेषु मिचितेन संवृतेन अतिरञ्जनेन अतिशयानुरागवता जनेन लो. केन 'असुमतां प्राणिनां छलेन अधिरूढा अपूर्वा पूरिव' (इयं नगरी) भाति स्म ।। दिदृक्षमाणस्य जनस्य तस्मिन्कालेऽखिलानि क्षणमिन्द्रियाणि । तं नेत्रमात्रस्थितिमेव जग्मुः स्वस्थाननिर्वेदमिवागतानि ॥ ४७ ।। दिक्षेति ॥ तं राजानं दिक्षमाणस्य द्रष्टुमिच्छोर्जनस्याखिलानीन्द्रियामि स्वस्थान. निर्वेदमात्मीयवसतिखेदमागतानीव तस्मिन्काले क्षण नेत्रमात्रस्थितिमेव जग्मुः ॥ उत्प्रेक्षा॥ स धृतव्यमनेन अनेन पुरं परमङ्गलमङ्गलघोषकृता । नगरीमभिरजयता जयतादितिवाक्यविभागमितो गमितः ॥ ४८ ॥ Dogticed b, Google Digitized by

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१०३&oldid=234562" इत्यस्माद् प्रतिप्राप्तम्