अथवा । अलं मे खलालापसमाधाननिर्वन्धेन । तदहमिदानीमजितार्थतीर्थप्रतिपादनाय दुरोदरशालामेव व्रजामि ।
यतः- |
( आकाशे )
वयस्य चन्दनक!तिष्ट तिष्ट । मामपि प्रतिपालय | क्रिमात्थ ? सत्तट्टवासराइं दुरोदरविरहिणो ण तुह मुहं पुलोईअदि[१] । ( सस्मितम्) अलं मे वित्तशन्यस्य दोपोद्भावनेन । वित्तशाठ्यं हि क्रमातिक्रमे गर्हितम् । किं व्रवोपि ? । वि[२]लासवदीदिन्नहिअअस्स ण र्किपि ते पडिहाअदि । (विहस्य ) विदितोऽस्मि वयस्येन । एवमेवैतत् ।
अहरहरभुता अप्यपूर्वापमाणा |
( इति स्थित एव पठति )
( आफाशे कर्णे दत्वा )
एयं मे वयस्यो व्रवीति । सुट्टु खु मे कोऊहल्लताओप्पेम्मलीलाओ आअण्णिदुं, जाहिं सअलभुअणमोहप्णो तुमंपि मोहि[३]दो । ( सत्रीडस्मितम् ) कथयामि यदि न सुभगम्मन्यं मन्यते वयस्यः । एकदा मयेि केलिकलहान्तरिते सुगुप्तं सौधपृप्ठाचलग्ने अरतिभरनिरस्तनिद्रया तया गाथा पठिता | सेयमुत्कीर्णेव मनसि वर्त्तते ।
अ[४]ग्वइ ण तत्थ धुत्ते वावारो कोवि इअरदूईण । |
( इयासीनस्तथा तथा अरतिं नाटयति )