तदिदं गृहाण द्रव्यजातम् । क्षमस्व नश्चापलम् ।
समुद्रः-( सद्दर्पे सप्रश्रयम् ) भगवन्भर्ग ! अनुग्रहोऽयं मपि कृतः । किमिदानीं प्रत्यर्पणेन निग्रहः क्रियते ? ।
शङ्करः-तद्भवानेव स्वमुखेन विभज्य सम्मानयतु देवान् ।
समुद्रः-एप सम्पाद्यामि देवादेशम् । ( समन्तादुवलोफ्य ) विनोदयन्तु मदुत्सङ्गमाकन्दवियोगवेदनां विरिञ्चिचदनारविन्दकानने सुस्वरा वेदेन्दिन्दिराः ।
( वेदाः सङ्कामन्ति )
समुद्रः-कृतार्थयतु मां प्रमथनाथशिरोनेपथ्यपदवीमासाद्य सुपुत्रश्चन्द्रमाः ।
( चन्द्रस्तया करोति )
लक्ष्मीः-( स्वगतं सविषादम् ) कंठम्मि संठिदं मह जीविदं । ण जाणे किं भणिस्सदि तादो ।
कृष्णः-( स्वगतं सोत्कण्ठम् ) इदानीं मे सुकृतपरिपाकस्य फलावसरः ।
समुद्रः-( सहर्पम् ) उज्ज्वालयतु मत्कुलं कमलाकरकमलपरिग्रहेण भक्त्तजनानुग्रहग्रहिलो गोविन्दुः । (इति लक्ष्मीपार्णि कृष्णपाणौ निवेशयति ) अयं चास्तु कन्यामहादानस्य दक्षिणाकौस्तुभो मणिः । (इति कौस्तुभमर्पयति )
कृष्णः-( लक्ष्मीं विभाव्य स्वगतं सोत्कण्ठम् )
ये तनौ सुतनोर्मग्राः कन्दर्पस्य शराङ्कराः । |
समुद्रः-अयं च निप्कन्दयतु दुदोन्रोदेत्यकुलकमलकाननं देवराजाध्यासनोपबृंहितस्तुंरगराजोच्चैःश्रवसहचरः कुम्भीन्द्रः ।
( ऐरावतः सहोञ्चैःक्ष्रयसा पुरुहूतमाश्रयति )
समुद्रः एतेऽपि सकलजगदुपकृतिपराणां महौपधीनां रत्नानां चाघारतय घन्यतरा भवन्तु भेरुमन्दरादयो धराधराः । (औपधयः सह रत्नैर्मेरुमन्दरादीनाक्ष्रयन्ति )
समुद्रः स्वीकुर्यन्तु कृतदारिघनिधनानि निघानानि घनाधिनाथम् ।