दिविपदः पीयूपं निपीयामरा भवन्ति । तदमृताविर्भावसमये मया अवहितेन
भाव्यम् । तदेवं तावत् । (प्रकाशम्) सखे कुजम्भ ! एह्येहि ।
कुजम्भ०-(प्रविश्य ) किमादिशयते ?
( वलिः । कर्णे एवमेव )
कृजम्भः'-( सहर्पोल्लासम्) सिद्धमेतत् ।
इन्द्रः--अगवन्नारायण ! त्वत्परायणोऽयं व्यवसायः । किमिदानीमेव भन्दायसे ? ।
वासु०--( मन्दरमावर्त्तयन्स्वगतं सोत्कण्ठम्)
यावद्वभूव हरिणार्भकलोचनाया- |
( प्रकाशं सावहित्थम्) अयि गीर्वाणाः ! अयि दानवाः ! सर्वप्राणेन परिभ्रमयत पुनर्मन्थाचलम् ।
( सर्वे तथा कुर्वन्ति )
धनदः--पश्यत पश्यत कुम्भानामिव_मुखान्युत्प्रेङ्खन्ति ।
इन्द्रः-( ससम्भ्रमम् ) आस्तामास्तां तावन्मन्दरावर्त्तनम् । कथं समग्रा एव कुम्भाः समुत्तरन्ति । ( सवितर्फम्) किममी स्फुदितत्वाद्विविक्त्ताः कथमन्यथोत्तानमुग्खास्तरन्ति ।
धनदः-( सवितर्कम्) विचिन्रा किमियमुत्तानमुखी कौम्भो नौरद्भुतनिधौ पयोधी ! ।
वासु०-(निरूष्य सहपैम्)
कौम्भी ध्रवं नौरियमभ्युपैति |