मदनसुन्दरी-अत्ते! किं नेदं[१] ? ।
( कपटफैलिः कण्ठं गृहीत्वा रोदिति )
कलाकरण्डकः-(विलोक्य ससम्भ्रममुपसृत्य) भगवन् ज्ञानराशे ! किमेतत् ? ।
ज्ञान०-( स्वरेण ज्ञात्वा ) वत्स कलाकरण्डक ! दुदैवेहतोऽहं, किं कथयामि।
कोकिलपारावतौ- (सक्रोघम् ) णाह कलाकरंखअ ! । एदं माआवंचिदसअलभुअणं संभावेसु णट्ठ[२] ।
कलाकरण्डकः ( सकोघम्) आः पापौ ! अलमलं चापलेन । ( ज्ञानराशिं प्रति ) भगवन् ! कथय किमेतत् । सज्जोऽयं त्वत्प्रेष्यो जनः ।
ज्ञान०-वत्स । तावदम्भः समानीय प्रक्षाल्यन्तां सर्वेपामक्षीणि ।
कलाकरण्डकः---कुसुमिके ! मुद्गरक ! ननु प्रत्यासन्नैव दीर्घिका, तदानीयतां पानीयम् ।
उभौ-जं सामी समादिसदि।(इति निप्कम्य पुनः प्रविश्य ) उवणीदंजलं [३]।
कलाकरण्डकः--प्रक्षाल्यन्तां सर्वेपामक्षीणि । ( इति तथा कुरुतः )
ज्ञान०-(मुखं ग्रक्षाल्य उन्मील्य चक्षुपी ) वत्स कलाकरण्डक ! दिष्ट्या दृष्टोऽसि दिष्टया प्रशान्तमापदा ।
कपट०--( सहर्पम्) दिट्टिआ दिट्टो मए तुह मुहससी । ( इति मदनमुन्दरीं चुम्पति ) ।
कोकिलपारावतौ-(कलांकरण्डकं पदुयोर्गृहीत्वा ) दिष्ट्या जीवतोनौ[४] नातिथिर्जातोऽसि ।
कलाकरण्डकः-वत्सौ ! प्रणम्यतां तावदयं जगद्गुरुर्भगवान् ।