पृष्ठम्:Balacharitam by Bhasa.pdf

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( नान्द्यन्ते ततः प्रविशति सूत्रधारः । ) सूत्रधार :- शङ्खक्षीरवपुः पुरा कृतयुगे नाम्ना तु नारायण स्त्रेतायां त्रिपदार्पितत्रिभुवनो विष्णुः सुवर्णप्रभः । दूर्वाश्यामनिभः स रावणवधे रामो युगे द्वापरे नित्यं योऽञ्जनसन्निभः कलियुगे वः पातु दामोदरः ।। १ ।। एवमार्यमिश्रान् विज्ञापयामि । अये, किन्न खल मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अडग ! पश्यामि । प्रथमोऽङक नारद ( नेपथ्ये ) अहं गगनसञ्चारी । सूत्रधार :- भवतु, विज्ञातम् । पतत्यसौ पुष्पमयी च वृष्टिर्नदन्ति तूर्याणि च देवतानाम् । द्रष्टुं हरिं वृष्णिकुले प्रसूतमभ्यागतो नारद एष तूर्णम् ।। २ ।। ( निष्क्रान्तः । ) स्थापना ( ततः प्रविशति नारदः । ) अहं गगनसञ्चारी त्रिषु लोकेषु विश्रुतः । ब्रह्मलोकादिह प्राप्तो नारदः कलहप्रियः ।। ३ ।। (९०)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Balacharitam_by_Bhasa.pdf&oldid=100852" इत्यस्माद् प्रतिप्राप्तम्