पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका. विदितमेवेदं समेषां यदद्वैतासिद्धयाख्यो ग्रन्थो गुरुचन्द्रिकाख्य- व्याख्यया समलङ्कृत्य महीशूरराजकीयप्राच्य कोशागारात् प्रकाश्यत इति । तत्र आगमबाघोद्धारान्तभागोऽज्ञानवादान्तभागश्च सम्पुटद्वया- त्मना सम्मुद्रय बत्सरद्वयात्पूर्वं बाचकमहाशयावगुर्ति नीतौ । इदानी- मवशिष्टप्रथमपरिच्छेदान्तभागोऽपि एकसम्पुटात्मना सम्मुद्रयाशितो- वर्तते । अम्या गुरुचन्द्रिकाया अद्वैतसिद्धौ प्रथमपरिच्छेदपर्यन्तमेव उपलब्धतया तावत्पर्यन्तमेव इयं प्रकाशिता । अवशिष्टपरिच्छेदानामपि कृतेरस्या उपलब्धौ तन्मुद्रणे वयं सन्नद्धा एव स्मः || प्रथमसम्पुटोपोद्धाते आगमबाघोद्धाराच्छिष्टो भागः द्वितीय- सम्पुटात्मना प्रकाशयिष्यत इति लिखितमपि कालविलम्बमसहमानै- रस्माभिर्वाचकानुकूल्यार्थं स एव सम्पुटद्वयात्मना विभज्य प्रकाशितः || एतत्सम्पुटान्ते वाचकसैौकर्याय सम्पुटत्रयेऽपि ग्रन्थातरेभ्य- स्सङ्गृहीतानां प्रमाणवचनानां आकरादिरकारादिक्रमेण निर्दिष्टः ।। ग्रन्थस्यास्य द्वितीयतृतीयसम्पुटयोर्मुद्रणे त्रय आदर्शा उपयुक्ताः || ' तेषु प्रथमः 'क' संज्ञकः अस्मत्प्राच्यकोशागारीय एव । द्वितीयः 'ख' संज्ञक: विद्याविशारदेत्यादिबिरुदाङ्कितानां आस्थान- धर्माधिकारिणां कुणिगल्-रामशास्त्रिणां सकाशादुपलब्धः ॥