पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

428 सव्याख्यायामद्वेसिद्धी [प्रथमः चेष्टावाचकत्वाभाववदत्रापि ज्ञानवाचकत्वाभावात् । माया प्रज्ञा वयुनमिति ज्ञानपर्याये निघण्टुकारवचनं च ज्ञानाकारपरिणा- मित्वादज्ञानस्योपपन्नम् । वृत्तिज्ञानस्याज्ञानाभिन्नत्वादज्ञान- नङ्गीकारान्मायाविद्ययोरत्यन्ताभेद इति प्रतिपादनादित्येवार्थ: । परिणा मित्वादिति । मायापरिणामत्वेन ज्ञाने मायापदप्रयोगः । सुखादे र्मायापरिणामत्वेऽपि वृत्तिज्ञान एव मूरिप्रयोगवशान्निरूढलक्षणेति भावः । वस्तुतः प्रमित्यर्थकस्य माघातोर्मायेति पदं ज्ञानार्थकं 'माच्छाससि- सूभ्यो य' इत्यौणादिकसूत्रसिद्धयप्रत्ययान्तम्, 'मय ज्ञान' इति तु पाणिनीयधातुपाठे नास्त्येव ; `अयवयपयमयचयतयणयगता 'वित्यस्यैव धातुपाठे सत्त्वात् । यत्तु –' चिन्तिपूजी' त्यादौ चकारान्मयधातोरङ्.. प्रत्यय इति – तन्न; चकारातोलयतरङ्प्रत्ययेन तुलति हरदत्तादिभि- रुक्तत्व/तुला शब्दस्याङ्प्रत्ययान्तत्वेऽपि मायाशब्दस्य तथात्वे माना- भावात्, दीर्घत्वासंभवान्मायापदस्योज्वलदत्तीयादिवृत्तिषु माच्छेत्यादि- सूत्रोदाहरण त्वेनोक्तचनुपपत्तेश्च । तथा च ' मा मान' इति धातुपाठा- न्मानस्य च परिणामस्येव ज्ञानरूपस्यापि संभवेन योगेन ज्ञानार्थ- कत्वेऽपि रूख्याऽज्ञानार्थकं मायापदम् || 6 --- यत्तज्वलदत्तादिवृत्तौ माया छद्मति व्याख्यानं तदम्मदविरुद्धमेव ; दुर्घट कार्यकारित्वस्य रूट्यर्थगुणस्य छद्मन्यपि संभवात् । अत एव ‘माया स्यात्साम्बरीबुद्धयोर्मायः पीताम्बर सुरे' इति मेदिन्यप्यांवरुद्धा; साम्ब विद्यायामप्युक्तरूअर्थगुणसंभवात् । न च दुर्घटकारित्व- मेव रूढ्यर्थोऽस्त्विति – वाच्यम्; 'ऋतेऽर्थं यत्प्रतीयेते' त्यादिस्मृत्य मृषात्वविशिष्टस्य मायापदशक्यत्वबोधनात् । एवं च दुर्घटकारिणि निरूढलक्षणा स्वीकाराद्धरिप्रयोगः तिलरसमुख्यार्थकस्यापि तैलपदस्य - 1 शाम्बयां -ग.