पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः] अज्ञान-अनुमानोपपत्तिः एव । एतेन गोशब्दवाच्यत्वेन पृथिव्या अपि शृङ्गित्वानुमाना- पातोऽपास्तः; तत्रानुकूलतर्काभावात् । अज्ञानस्य स्वरूपेणा- ज्ञानाविषयत्वेऽपि तद्भावत्वादिकमज्ञानविषयो भवत्येव ; तस्या- ज्ञानग्राहकसाक्ष्यग्राह्यत्वात् । अन्यथा तत्र विवादो न स्यात् । एवं प्रमायाः स्वविषयावरणभावपूर्वकत्वमपि न प्रमास्वरूप- ग्राहकसाक्षिग्राह्यम् । तथाच ताहिकाया एतस्या अनुमितेः साध्यसाधनोभयाधिकरणत्वान्न कोऽपि दोषः । दृष्टान्ते चान्ध- काराव्यवहितोत्पत्तिकत्वं विशेषणम्; तेन न प्रथमपदवैयर्थ्य पराभ्युपगतस्य प्रकाशप्रागभावस्य प्रकाशनिवर्त्यत्वेन प्रकाशत इति व्यवहारप्रयोजके तन्नाशे प्रयोजकत्वस्य सत्यन्तपर्यवसितार्थस्य पक्षे सत्त्वात् । न चोक्तनाशो नोक्तव्यवहारप्रयोजकः, किंतु प्रकाश एवेति- वाच्यम् ; कालादिविधयोक्तनाशे व्यधिकरणप्रकाशस्यापि प्रयोजकत्वे- नासाधारणस्य नाशप्रयोजकत्वस्य लाभायैवाद्य प्रयोजकान्तस्यो तत्वेन हेतावनिवेशात् । अन्यथा वैयर्थ्यात् । अत एव तमसो द्रव्यत्वा - नङ्गीकारमते न साध्यसाधनवैकल्यम्; आलोकप्रागभावस्यालोक- निवर्त्यत्वादिसत्त्वात् । अत एव द्वितीयहेतुरपि नासिद्ध इति ध्येयम् || ताहिकायाः अज्ञाने भाववादि प्रमायामुक्तपूर्वकत्वं च गृह्णन्त्याः । साध्येति । भावत्वाद्यज्ञाननाशकत्वेत्यादि । दोषः प्रसिद्धि बाधौ । अन्धकारेत्यादि । स्वसमानाधिकरणतमः कालवृत्ति- त्वमित्यर्थः । तेनोत्पत्त्यादेर्व्यर्थत्वेऽपि न क्षतिः । वैयर्थ्य अर्थशून्य- त्वम् । अन्धकांरत्यादिकमेव प्रथमपदार्थ इति भावः । उक्तविशेषण- 3 असिद्धि-ग. तमो - क. " त्वने यादिः- ग. 2 - -117 ADVAITA VOL. II. 27