पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वेतसिद्धो किंचिदवेदिष' मिति स्मरणमभ्युपेतमिति योरप्यविरोधः । अत एवोक्तं वार्तिककारैरुषस्तिब्राह्मणे- न चेदनुभवव्याप्ति: सुषुप्तस्याभ्युपेयते । नावेदिषं सुषुप्तोऽहमिति धीः किं बलाद्भवेत् || 404 [ प्रथमः वार्तिकविवरण- दीनामविद्य।परिणामित्वाङ्गीकारात् सविकल्पवृत्तावहङ्कारस्य हेतुत्वाद्वा दृष्टिसृष्टिपक्षे भेदादेरव्यहारपरिणामत्वाच्च नोक्तानुभव इति तु प्रकृ- तेऽपि तुल्यमित्याशयेन मात्रपदमुक्तम् | तमोगुणस्वरूप मात्र गोचरत्वमेव सूत्रार्थतया वक्तुं युक्तमिति भावः ॥ इति धीः अज्ञानांशे स्मृतित्वेनानुभूयमाना धीः । सुषुप्तेति । धीरित्यन्वयः । सुषुप्तिस्वरूपसुखयोरित्यर्थः । तेन सुषुप्ते नावेदिष- मित्याकारत्वे सविकल्पकत्वेऽपि न क्षतिः । उक्तधियोऽज्ञानांशेऽनुभवत्वं वक्तुं शक्यम्, न तु सुषुप्तवंशे स्वरूपसुखांशे वा; न हि विक्षेप- बाहुळ्यकाले जागरे तदनुभवः संभवति । न च – कार्यसामान्यसंस्कारे- गोपहिते चैतन्याज्ञाने स्वरूपसुखसुषुप्ती, तत्प्रकाशरूपचैतन्यस्योक्त- संस्कारनाशरूपजाग्रदवस्थायां नाशत्वस्वीकारात्तत एव तयोः स्मृति- रिति वाच्यम्; उक्तसंस्कारस्य तदुभयाविषयकत्वात्तदात्मकजाग्रदव- स्थायास्तदुभयविषयक संस्कारत्वासंभवात् । अथोक्तचैतन्यात्मकत्वस्यापि तस्यां स्वीकारातत्संभव इति चेन्न; चैतन्यवृत्तिसाधारणविषयत्वस्या- भावादनुमित्यादिवृत्तिनाशरूप संस्कार साधारण्याय वृत्तिनिष्ठाकाररूपतदु- भयविषयत।शालिसंस्कारस्य स्मृतिहेतुत्वस्य क्लृप्तत्वात्तदुभयविषयकवृत्त- रावश्यकत्वात् । किंच चैतन्यस्वरूपस्यैव सुखत्वात् जाग्रदादिकालेऽपि तदनुभवप्रयुक्तनिरुपाधिकप्रेमदर्शनात् सुषुप्तयुत्तरमेव सुखमासमिति स्मरणमित्यत्र बीजाभावः, अतः सुखाकारसौषुप्तवृत्तिरावश्यकी; सैवा-