पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञानप्रत्यक्षोपपत्तिः 395 - चिदुभेयः । न च – यत्रोक्तप्रतियोग्यप्रसिद्धिः, तत्र कथमभाव- प्रतीतिरिति – वाच्यम् ; समवेतवाच्यत्वं नास्तीत्यत्रेव विशेष्ये विशेषणाभावविषयत्वेन व्यधिकरणधर्मावच्छिन्नप्रतियोगिताका- भावविषयत्वेन वोपपत्तरिति – चेन्न; अनुभवविरोधात्, विशेष- ज्ञानाभावस्य त्वयुक्तार्थज्ञानाभावस्य वा अनभ्युपगमे तद्विषय- ज्ञानसत्वेन तव्यवहारापत्तेश्च । न चैवं दृश्यते । स्वतः प्रामाण्य मते तु तत्प्रकारकत्वे तद्विशेष्यकत्वे च गृह्यमाणे तद्वत्त्वग्रहणस्या- वश्यकतया तदंशे तत्प्रकारकतद्विशेष्यकत्वस्य तादृशप्रतियोगि- कथंचिदिति । विशेषनिष्ठाज्ञानावच्छिन्न विषयता कज्ञानाभावो विपयः, प्रतियोगिज्ञाने तु विशेषत्वेन विशेषभानमिति भावः । विशेष्ये विशे- षणाभावेति । स्वदुक्तार्थज्ञाने विशेषप्रकारकत्वस्य विशेषप्रकारक ज्ञानादौ त्वदुक्तार्थविषयकत्वादेर्वाऽभावेत्यर्थः । अनुभवाविरोधात् । त्वदुक्तार्थविशेषविशेषिताज्ञान? विरोधित्वेनानुभवस्यालापापत्तेः । अन- भ्युपगम इति । त्वदुक्तार्थ न जानामीति धीकाल इत्यादिः । दृश्यत इति । तादृशाभावस्याभ्युपगमे तु प्रतियोग्यज्ञानादेव तव नोक्तानुभवः ; मम तु निर्विघ्नः स इति शेषः । तद्वत्त्वग्रहस्येति । तदंश इत्यग्रेऽन्वयः । त्वदुक्तार्थांशे विशेषप्रकारक ग्रहस्येत्यर्थः । तत्प्र- कारकतद्विशेष्यकत्वस्य विशेषप्रकारतानिरूपितस्य त्वदुक्तार्थविशेष्यत्वस्य प्रतियोगिज्ञाने उक्तविशेष्यत्ववत्त्वेन ज्ञानस्य ज्ञाने संभवादिति । न च -- विद्यमान एव ज्ञाने प्रमात्वस्य साक्षिणा मन्मते महादविद्य- मानज्ञानस्योक्तविशेष्यत्ववत्त्वेन ग्रहे न तदंशे तत्प्रकारक इति- बाच्यम् ; अविद्यमानस्याप्युक्तविशेषत्ववत्वेनेव प्रमात्वेनापि पूर्वानुभव- सत्त्वे स्मृतिसंभवात्, विशेष्यविशेषणयोरुपस्थितिसत्त्वे विशिष्टबुद्धेः 1 निष्टानवच्छिन्न -ग. 2 विशेषितज्ञान- ग. -