पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

392 सव्याख्यायामद्वेतसिद्धौ [ प्रथमः तद- लिविया तज्ज्ञापकत्वमेव वाच्यम् । न तु तज्ञ्जनकत्वम्, तच न; विपक्षबाधकतर्काभावेन सामानाधिकरण्याभावेन च व्याप्ते- रेवासिद्धे: । अत एव तदितरधर्मावच्छिन्नप्रतियोगिताकत्वं वच्छिन्न प्रतियोगिताकान्यत्वव्याप्यमित्यपि निरस्तम् । एवं चावृ- तीनां गगनादीनां समनियतानां वान्येषां धर्माणामेक एवा- त्यन्ताभावः; युगपद्विनष्टानामुत्पन्नानां वा समानदेशानामसति बाधके एक एव ध्वंसः प्रागभावो वा; व्यधिकरणधर्मावच्छिन्न- प्रतियोगिताकोऽपि चेदभावः प्रामाणिकः, तदा तस्यैकस्यैव प्रतियोगिताः सर्वेरेव व्यधिकरणैः सर्वेश्च समानाधिकरणैः सबं- धैरेवावच्छिद्यन्ताम् आकाशाभाव एव वा तथास्ताम् ; एके-. नैवोपपत्तावभावभेदकल्पने मानाभावात् । न चैवमेक एव जगती- तले भवत्वभावः, स एव तत्तदवच्छेदकदेशकालादिभेदेन तत्त- व्यवहारभेदं जनयिष्यतीति किमधिककल्पनयेति वाच्यम् उपपद्यते चेदस्तु । प्रकृते तु न बाधकं किंचित् । अत एव वैशेषिकाणां स्वाभ्युपगतकालपदार्थस्यैव सर्वव्यवहारहेतुत्वोपपत्तौ , प्रतियोगिताविशेषसंबन्धेन मण्यादिमदभावादेः कारणत्वादिसंभवादिति भावः । सामानाधिकरण्याभावेनेति । यत्र यत्रावच्छेदकमेदः तत्रा- भावभेद इत्यत्राभावे व्यभिचारात्, यत्र यत्रैकावच्छेद कमिन्नान्याव- च्छेदकत्वं तत्रैकाभावभिन्नापराभावत्वमिति वाच्यम्; तथाच साध्य हेत्वोरसामानाधिकरण्यमिति भावः । बाधके—– मूलाग्रादिरूपावच्छे- दकभेदादिरूपे । एक एवेति । अभावांशे प्रतीतेरनुगताकारत्वायेदम्, तदनपेक्षायां तु तत्तदधिकरणेष्वेवाभावत्वं पूर्वोक्तं युक्तम् । उपपद्यते चेदिति । रूपत्वाद्यवच्छिन्न प्रतियोगिताकत्वस्यावच्छेदकता वाया-