पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अंज्ञानप्रत्यक्षापपत्तिः अथ अज्ञानप्रत्यक्षोपपत्तिः - तत्र चाज्ञाने 'अहमज्ञो मामन्यं च न जानामी ' ति प्रत्य- क्षम्, 'त्वदुक्तमर्थ न जानामी ' ति विशेषतः प्रत्यक्षम्, 'एता- वन्तं कालं सुखमहमस्वाप्सं न किंचिदवेदिष 'मिति परामर्शसिद्धं सौषुप्त प्रत्यक्षं च प्रमामणम् । न चाहमर्थस्याज्ञानानाश्रयत्वेन कथमयं प्रत्ययो भावरूपाज्ञानपक्षे उपपद्यत इति – वाच्यम्; अज्ञानाश्रयीभूतचैतन्ये अन्तःकरणतादात्म्याभ्यासेनैकाश्रयत्वसंव- न्धेनोपपत्तेः । अत एव - जडे आवरणकृत्याभावात् 'घटं न जानामी 'त्यादिप्रततिर्ज्ञानाभावविषयत्वे प्रकृतेऽपि तथास्त्विति- · निरस्तम्; तत्तदवच्छिन्नचैतन्यस्यैवाज्ञानाश्रयत्वेन तत्रापि तद्व्यवहारोपपत्तेः । न च साक्षिवेद्ये सुखदुःखाज्ञानादौ प्राति - भासिके च भावरूपाज्ञानाभावेन तत्र न जानामीति प्रतीतिः कथमुपपद्यत इति – वाच्यम्; स्वस्मिन्विद्यमाने साक्षिवेद्ये सुखादौ स्वभ्रमसिद्धे रूप्यादौ च 'न जानामी 'ति व्यवहारासंभ- वात्, परसुखादौ 'न जानामी ' ति व्यवहारस्य परोक्षज्ञाननि- ' अथ अज्ञानप्रत्यक्षोपपत्तिः उपपत्तेरिति । शुद्धचितोऽज्ञानाश्रयत्वविषयक प्रत्ययान्तरा- भावादयं प्रत्ययोऽहमर्थेऽज्ञानवत्त्वाप्रकारकत्वेन' न निर्णेतुं शक्यत इति न युक्तम् ; 'पूर्वसिद्धतमसो हि पश्चिमो नाश्रय' इत्यादियुक्तेरज्ञाना- श्रयकोटौ चिदन्यनिवेशे गौरवाच्च तथा निर्णयात्, सौषुप्तस्य तादृश- प्रत्ययान्तरस्य सत्त्वाच्च । स्वस्मिन्निति विद्यमानत्वान्वाय । परसुखादा- वित्यादिना अतीतानागतस्य स्वसुखस्य स्वभ्रमसिद्धशुक्तिरूप्यादेश्व 1 वस्वाविषयकत्वेन -ग. 367