पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकजीवाज्ञानकाल्पतत्वोपपत्तिः 349 अथ ब्रह्मण एव जीवत्वेन तस्यैव बन्धमोक्षाविति तस्य नित्य- मुक्तत्वादिश्रुतिविरोधः, न; मुक्ते: स्वस्वरूपत्वेन बन्धस्य चाविद्यकत्वेन तदविरोधः । न हि मृगतृष्णिकाकल्पितोदकेन स्वभावशुष्का मरुभूमिरार्द्रा भवति । एतेन–कल्पितस्य जीवस्य कल्पकं प्रति प्रत्यक्त्वायोगः; तेन कल्पकेन प्रत्य- क्त्वेनाज्ञानात्, अन्यस्यानुभवितुरभावात् एकजीवाद्वैतश्रुत्यादेरप्यासिद्धिरिति-निरस्तम्; जीववादस्याङ्गीकारात् । न च – तर्हि तमेव प्रति प्रत्यक्त्वपरा- क्त्वयोरयोगः मैत्रं प्रति त्वमितिधीविषयस्य चैत्रस्य तमेव प्रति अहमितिघीविषयत्वायोगश्चेति – वाच्यम्; भिन्नभिन्नान्त:- - करणाभेदाभ्यासेन तत्तदन्तःकरणमादाय प्रत्यक्त्वपराक्त्वाह - मित्यादिबुद्धिविषयत्वव्यवस्थोपपत्तेः । न च चैत्रसुखदुः- मैत्रेणानुसन्धानापत्तिः; अन्तःकरणावच्छि- नेनाविद्यावच्छिन्नेन वा नाद्यः; तत्र परस्परं भेदात् । न - खादीनां तथानुभवापलापे अनेकशरीरे एक- एकजीवेन सर्वप्रमात्रादि कल्पितमित्यादि ग्रहणम् । तथाच जीवभेद- ज्ञानादेकबोधनार्थमपरस्य प्रवृत्तिः ( एकजीवकल्पितं सर्वमिति निश्च येऽपि मनोवच्छिन्नानां भिन्नत्वात् । एकस्य बोधनार्थमपरस्य प्रवृत्तिः) युक्ता; न होकमनोवच्छिन्नेनापरमनोवच्छिन्नं कल्पितम् । न चैकस्य मोक्षार्थं प्रवृत्तिं जानतोऽपरस्य तदर्थं प्रवृत्तिर्न स्यादिति - वाच्यम् ; परप्रवृत्त्या मोक्षावश्यम्भावानिश्चयान्मुमुक्षुवत् प्रतारकाणामपि दृष्टत्वात्, विवेकिनां मोक्षार्थं प्रवृत्तेरेव रोचमानत्वात्सांसारिकप्रवृत्तेर्दुःखबहुत्वनिश्च- यादिति भावः । तथानुभवेति । नानाशरीरेषु जीवस्य प्रत्यक्त्वेनानु. भवेत्यर्थः । श्रुत्यादोरीति । तदनुभवस्याप्यपलापसंभवादिति शेषः । 1 प्रत्यपराक्तत्वमह.