पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

344 सव्याख्यायामद्वैतसिद्धौ [प्रथमः योपादानस्यैव विनिगमकत्वात्, यत्रेत्यनेन देशनिर्देशे केति देशप्रश्नानुपपत्तेः, कालानिर्देशे च तदेति प्रतिनिर्देशानुपपत्तेः -- - स्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हदय आकाश- स्तस्मिं छेते ' इति प्रत्युत्तरम् । तत्र क्वेत्यनेन देशस्यैव प्रश्नः, अन्यथाकाश- रूपदेशोत्तरासङ्गतेः । तथाच यत्रेति कालस्यैव निर्देश इति भावः । ननु – यत्रेति केत्यस्य विशेषणं तत्राहकालानिर्देश इति । यच्छ- ब्देन कालानिर्देशे प्रश्नवाक्ये तदेति निर्देशो न स्यात्; यच्छन्देनो- द्दिष्टस्यैव तच्छब्देन प्रतिनिर्देशौचित्यात्, प्रसिद्धार्थकत्वस्य प्रकृते तच्छब्दस्यासंभवादित्याशयेनाह – कालानिर्देश इत्यादि || ननु तथाप्याकाशशब्दितं ब्रह्मवतस्मादात्मन इत्यत्रोक्तमिति- चेन्न; 'एवमेवैष एतच्छेत' इत्यत्राव्यवहितपूर्व वाक्ये जीवस्यैव प्राधान्येनोकत्वेन तत्पदबोध्यत्वौचित्यात् 'पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं विचित्र ' मित्यादिश्रुत्यन्तराच तत्र यतः क्रीडति मुझे अतः कारणा इष्टुरेवोपादानत्वादिति ज्ञापयितुं क्रीडतीत्यन्तम् । अत एव 'तस्माद्वा एतस्मादात्मन आकाश' इत्यादौ एतस्मादात्मन इति सार्थकम्; ब्रह्माभिन्नजीव कारणत्व परत्वात् । अत एव च वाक्यान्तरे ब्रह्महेतुत्वोक्तिब्रह्माभिन्नजीवपरा । अत एव च ' असतोऽधि मनोऽसृज्यत मनः प्रजापतिमसृजत्तच्चेदं मनस्येव प्रतिष्ठितं यदिदं किंचे' इत्यादिश्रुतिर्जगतो मनःपरिणामत्वमाह | ' एतत्सर्वं मन एवे 'ति श्रुतिव्याख्याने- । शुक्लं कृष्णमणु स्थूलमिति धीः कर्मणो वशात् । द्वैताधिकारमापन्ना वैश्वरूप्यं नियच्छति ॥ 1 यः-ग. 2 कारण-ग.