पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

340 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः बाच्यम्; ज्ञानस्य ज्ञेयत्वेजप विषयस्याज्ञेयत्वाभाववत् दृष्टि- सृष्टेर्दृष्टिसृष्टित्वेऽपि घटादेर्दृष्टिसृष्टित्वोपपत्तेः । नन्वैक्यप्रत्यभि ज्ञाविरोधः; पूर्वकालप्रतीतस्येदानमिभावात्, न चैषा भ्रान्तिः; दीपादौ परिणाम' भेदस्येवेह बाधकस्याभावात्, तदभावेजप भ्रान्तित्वे घटादेरप्येकस्मिन् क्षणे मेदस्यात्मनोऽपि प्रतिक्षणं भेदस्य प्रसङ्ग इति - चेन; 'नेह नाने 'त्यादिश्रुतिभिः प्रप- अस्य मिथ्यात्वेऽवधृते रज्जुसर्पादिवत्प्रतिभासमात्रशरीरत्व- मेव प्रतिभासकालातिरिक्तकालसत्त्वे बाधकम्, अतो भिन्नका- लानामात्मभिन्नानां प्रत्यभिज्ञा भ्रान्तिः । आत्मन्येकप्रतीति- रेककालावच्छेदेन घटादौ चैक्यप्रत्यभिज्ञा न भ्रान्तिः । एक- कालाबच्छिन्नघटादावात्मनि चाभेदे बाधकाभावात् । पुरुषा- न्तरप्रतीतेन सबैककालावच्छेदेनापि घटादौ प्रत्यभिज्ञानं भ्रम एव; प्रतिभासस्य भेदात् । यथा एकस्यामेव रजां मन्दान्धकारवर्तिन्यां दशानां युगपत्सर्पभ्रमेण पलायमानानां परस्परसंवादेनैक एव सर्पः सर्वैरनुभूयत इति प्रत्यभिज्ञा भ्रमः; अन्यभ्रमसिद्धस्यान्येन ज्ञातुमशक्यत्वात् । नन्वत्र कथमभेद- भ्रम: १ तत्कारणस्य सादृश्यादेः कस्याप्यभावादिति स्वप्राभेदभ्रमवत् दृष्टिसृष्टिसिद्धसादृश्यादिसंभवात् । न चैवम- भेद एवोत्पद्यतामिति – वाच्यम्; इष्टापत्तेः, रज्जुसर्पादि- बदुत्पन्नस्यैव ग्रहणनियमात् । न च क्वचिदुत्पद्यते क्वचित्रे- त्यत्र नियामकाभावः; मायाया विचित्रशक्तिकत्वाभ्युपगमात् । चेन्न; रव्याहतेत्याह --- ज्ञानस्येत्यादिना । अन्यभ्रमसिद्धस्य अन्यदी- याज्ञानावस्थापादानकस्य । विचित्रशक्तिकत्वेति । विचित्रका- 1 परिमाण.