पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदैः] ज्ञाननिवर्त्यत्वान्यथानुपपत्तिः वात्मनि च ज्ञानयोस्तुल्यम् । शुक्तयादिज्ञानं प्रति काचादिदोषः आत्मज्ञानं प्रति तु पापविशेषः प्रतिबन्धकः । तयोर्वेधर्म्यमात्रमप्रयो जकम् । अन्यथा काचादीनां मिथो वैधर्म्यमपि दोषः स्यात्, अत उक्त- व्याप्यत्वमेवासिद्धमिति भावः । एतेन - गरुडादिध्यानस्य संस्कार- सापेक्षस्य निवर्त्यविषादिकमिव श्रवणादिजन्यसंस्कारापेक्षात्मधीनिवर्त्य. मपि सत्यमित्यपास्तम्; असंभावनादि विषये लोके प्रमायाश्चा- संभावनादिदोषनिवृत्तये संस्कारापेक्षणेऽप्यधिष्ठानप्रमात्वेनैवात्मज्ञानस्य निवर्तकत्वादिति भावः ॥ - - ननु – - लोके निवृत्तिनिवर्त्ययोः सत्ता सम्रा, न हि रूप्यस्य निवृत्तिः शुक्तिस्वरूपा; तथासति शुक्तिरूप्यभेदाभेदयोरिव तयो- रविरोध: स्यात्, एवमज्ञानाज्ञेययोर्दोषाधिष्ठानयोः सत्ता समैव; •तथा च निवृत्त्यधिष्ठानरूपवज्ञानं सत्यं स्यादिति – चेन्न; अधि- करणस्य ध्वंसत्वमतेऽपि यद्यपि प्रतियोगिकालेऽपि ध्वंसस्तथापि नाश- कत्वाभिमतसामग्रयुपहितस्यैवाधिकरणस्य ध्वंसव्यवहारनियामकत्वान्नाति- प्रसङ्गः, तथाधिष्ठानस्य कल्पितध्वंसत्वेऽपि ज्ञानत्वोपहितस्यैव ध्वंस व्यवहारविषयत्वान्न सः । अज्ञेयाधिष्ठाने तु नान्यसमसत्ते; चिद्रूपत्वा - त्प्रातिमासिकस्यापि दोषस्योक्तत्वाच्च । यत्तु – यथानादिभावस्याज्ञानस्य निवृत्तिरदृष्टापि श्रुतिबलात्कल्प्यते, तथा सत्यस्यापि तस्य ज्ञान- नाश्यत्वं तत एवेति – तन्न ; न हि तस्य लोके श्रुत्यादिज्ञाननाश्यता न दृष्टा, न वा विदुषा तन्नाशो नानुभूयते; येन श्रुतिबलादेव तन्नाशकल्पना, न वा संस्काराद्यन्यस्य ज्ञाननाश्यस्य सत्यता युक्ता ; मिथ्यात्वादिना ज्ञाननाश्यताया उक्तत्वात् श्रुत्यापि हि लोकसिद्ध- मेवाज्ञानस्य ज्ञाननिवर्त्यत्वमुक्तं तत्त्वपूर्वम् अत एवाज्ञानसमान- 1 असंभाविताद्वि- -ख. ग. 2 प्रमाया इवा. ग. , 4 3 रूपं - ग. 4 न स्वपूर्वम्-ग. 21* ·