पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] ज्ञाननिवार्यत्वान्यथानुपपत्तिः 319 दर्शने कथमिति चेत् ? विशिष्टाकारेण विधेयत्वोपपत्तेः' । न हि सेतुदर्शनमात्रस्य दुरितनाशकत्वम् तत्रत्यम्लेच्छानामपि दुरित- नाशप्रसङ्गात्, किंतु परराष्ट्रादुपस्थानादिपूर्वकव्रतकलापविशि- ष्टस्य तथाच छत्रपादुकादिवर्जनदोषोद्धोषणदूरदेशगामित्व- भिक्षाभोजित्वादिनियमानां कृतिसाध्यत्वात्तद्विशिष्टं सेतुदर्शन- मपि कृतिसाध्यमिति विशिष्टरूपेण विधानोपपत्तिः । आत्म- ज्ञाने तु नास्ति किंचिद्विशेषणमपि कृतिसाध्यम्, येन तद्विशिष्टत्वेनापि विधेयत्वं स्यात्, कर्मसमुच्चयस्य निरा- करिष्यमाणत्वात्, बन्धस्याज्ञानमात्रहेतुकत्वेन ज्ञानातिरिक्त- निवर्तकानपेक्षणाच्च । बन्धस्याज्ञानहेतुकत्वं च 'मायां तु प्रकृतिं विद्यात्', 'अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ' इत्यादिश्रुतिस्मृतिन्यायसिद्धम् । वक्ष्यते चाग्रे । अज्ञाननिवर्तक- ज्ञानस्य चोत्पत्तिमन्तरेणान्यापेक्षा नास्तीति शुक्तयादिज्ञाने दृष्टम् । तथाचोक्तं वार्तिक कृद्भिः -- तत्त्वमस्यादिवाक्योत्थसम्यग्धजन्ममात्रतः | अविद्या सह कार्येण नासीदस्ति भविष्यति ॥ इति ॥ समन्वयसूत्रभाष्यादिषु । विशेषणमपि कृतिसाध्यमिति । श्रवणा- देरङ्गत्वे मानाभावादिति भावः । बन्धस्य मनआदे: । अज्ञान- मात्रहेतुत्वेन' अज्ञानात्मकमात्रपरिणामिकत्वात् । निवर्तकानपे- क्षणात् निवृत्तिजनकानपेक्षणात् । असंभावनादिरूपदोषाभावस्य प्रति- बन्धकाभावत्वेनात्मनिश्चयनिष्ठायां निवर्तकशक्तौ व्याप्यत्वेनापेक्षाया- मपि न जनकत्वम् । अदृष्टं न निवृत्तौ कारणम्; सुखदुःखतज्जनकेष्वेव तस्य तत्त्वादिति द्रव्यवर्धमानादौ स्पष्टम् | कालस्य हेतुत्वे तु मानस्या- भावः, भावे वा ज्ञानमपि काल इति तदन्यमात्रवृत्तिरूपावच्छिन्नस्यैव पपत्तिः 2 हेतुकत्वेन-क. ग.