पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकमेवेत्यादिश्रुत्यर्थविचारः 301 देशकालापरिच्छिन्नमिति तु भ्रमः ; गुणादौ संयोगादिना तस्याभावात् । अथ - तत्रापि संबन्धान्तरेण तत्सत्वात्केनचित्संबन्धेन तत्संबन्धिान न तदभाव इति मते तथा वाच्यम् तथा च भेदप्रतियोगित्वरूप- परिच्छेदस्य तत्र कुतो न धीः ? अनन्तपदेन मया परिच्छन्नभिन्न- मुच्यत इत्यपि अमः | भेदप्रतियोगित्वशून्यस्यैव बहुव्रीहिणा तत्पदे - नोच्यमानत्वात् । भिन्न इत्यर्थे तु परिछिन्नपदं प्रयुज्यत एव; एक- हायन्यादिद्रव्यमारुण्यादिना इतरभिन्नमित्यर्थे तत्तेन परिच्छिन्नमित्यस्या- मूर्तस्य मूर्तभेदकत्वेन क्रियाकारकत्वमित्यर्थे तस्य तत्परिच्छेदकत्वेन क्रियां प्रति कारकत्वमित्यस्य च वार्तिकादौ व्यवहारस्य स्पष्टत्वात् || 'तस्मादन्तः ' परिच्छित्तिः सा चाभावीयतैव हि । निषेध्यं प्रतियोगित्वमभावीयमतोऽखिलम्' || अति अदि बन्धन इति धातुसिद्धान्तपदस्य बन्धनार्थकतया बन्धनस्य च किञ्चिद्देशकालसंसर्गविरोधिस्वरूपतया संसर्गाभावप्रतियो- गित्वरूपत्वमिव किञ्चिद्वस्त्वैक्य रूपमिलनविरोधितया भेदप्रतियोगित्व- रूपत्वं संभवतीति तदप्यन्तपदार्थः प्रकृते निषिध्यते । अत एव -- ‘अनन्तः केशबे शेषे पुमान्निरवधौ त्रिषु' । इति मेदिनी । संसर्गाभाववत इव भेदवतोऽपि प्रतियोगिनं प्रत्यवधि- त्वात् । अत एव काश्यादेरसीवरणास्थानाधवधिकत्वव्यवहारः । यत्तु - देशकालगुणापरिच्छिन्नमनन्तशब्दार्थ इत्युक्तम् -- तन्न; गुणापरि- च्छेदोऽसङ्ख्यगुणकत्वं देशकालापरिच्छिन्नगुणकत्वं वा, नाद्यः; 'सत्यं ज्ञान' मित्यादिनिर्गुणप्रकरणे तस्य प्रतिपादनासंभवात्, केवलो निर्गुण' इत्यादिश्रुतिविरोधात् । अत एव नान्त्यः 'मय्यनन्तगुणेऽनन्ते गुण तोऽनन्तविग्रह' इत्यादौ गुणानन्त्यस्य पृथगुक्तिवैयर्थ्यात्, देश- 6 1 तस्मादतः --ग. 2 नन्तगुण - ग.