पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकमेवेत्यादिश्रुत्वर्थविचारः 'यदि यद्यपि कल्पित इत्याद्यर्थस्य भाष्योक्तत्वात्प्रपञ्चो यदीत्यादेस्तूक्तोऽर्थ- स्त्वत्प्रतिकूलः, अथवा यदिशब्दस्य निमित्तताबोधकत्वात्तस्याश्च स्वान्वयव्यतिरेकव्यापकान्वयव्यतिरेकश लित्वरूपत्वात् यथा रथन्तरसामा सोमः स्यादैन्द्र वायवाग्रान् ग्रहान् गृह्णीया' दिल्यादौ रथन्तरस्यान्वयव्यापकान्वयत्वमैन्द्रवायवाग्रत्वे पाठादेव प्राप्तमतो व्यति- रेकव्यापकव्यतिरेकत्वे तात्पर्यमिति कल्प्यते तथा सत्त्वस्थान्च यव्यापकान्वयकत्वं निवर्त्यत्वे बाधितमतो यत्र शुक्तिरूप्यादौ सत्त्वाभावस्तत्रानिवर्त्यत्वमिति व्यतिरेकव्यापकव्यतिरेककत्व परत्वं कल्प्यते, एवं च तर्कपरत्वानुसारेण मायामात्रमित्यत्र त्वदीयाथैवर्णन- च मनवकाशम् अत एव 'यदि क्षुधा तदा भुङ्क्ष्वे' त्यादौ लोकेऽपि क्षुषाद्यभावव्यापकत्वमभोजनादौ बुध्यते, परमार्थपदं तु यदि • स्वतन्त्ररूढम्, तथापि तस्याधिष्ठानसापेक्षत्वरूपपारतन्त्र्याभावरूपत्वेन सर्वभावानां मध्येऽयमद्वैत इत्युक्तेः सर्वभावानां मध्येऽयमधिष्ठान- निरपेक्ष इत्यर्थादेतदन्यत्सर्वमधिष्ठानसापेक्षमित्यर्थलाभात्तवानिष्टम् । ज्ञानानिवर्त्यत्वादिरूपं वा स्वातन्त्र्यम्, यद्विनिवर्तते तन्निवर्तकाभावा- घीनस्थितिकत्वात्परतन्त्रम् | अन्यादृशमेव स्वातन्त्र्यं प्रकृते ग्राह्यमित्यत्र तुन विनिगमकम् । अत एव परमार्थस्तु भूपालेत्यादि –'एकमयं हि यत् 'विज्ञानं परमार्थोऽसौ द्वैतिनोऽतथ्यदर्शिन' इति विष्णु- पुराणे मिथ्याप्रतिद्वन्द्विशुद्धचित्स्वरूपस्य परमार्थशब्दार्थत्व मुक्तम् । 'तत्याज भेदं परमार्थदृष्टि रित्युपसंहारे च भेदमात्रस्य परमार्थप्रति- द्वन्द्वित्वमुक्तम् । लोकेऽपि सत्यत्वेन ज्ञाते परमार्थपदप्रयोगः | परमा- र्थोऽविनाशीति तु वाक्यं परमार्थस्याविनाशित्वं प्रतिपाद्यानात्मनि परमार्थपदप्रयोगो भ्रान्त्यैव लोकानामिति सूचकम् । अत एव परमार्थो 1 , 1 इत्युक्ते-ग. 2 थकत्व - क. , 297