पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकमेवेत्यादिश्रुत्यर्थ विचारः 293 अथैवम् – 'अद्वैतः सर्वभावाना' मिति पूर्व कथमुक्तम् ! तत्राह -- 'अद्वैतं परमार्थत' इति । उक्तमिति शेषः । अद्वैत इति यदुक्तं तत्परमार्थतः परमार्थं स्वतन्त्रमपेक्ष्येत्यर्थः । सर्वभावानां मध्ये ईशोऽद्वैत इत्युक्तया स्वातन्त्र्यमीशस्य न त्वन्यस्येति लभ्यते न त्वन्यस्य मिथ्यात्वमिति भावः । नच - - सत्ये रूढत्वात्परमार्थशब्द: सत्यार्थक एवेति -- वाच्यम्; मिथ्यावस्त्वपेक्षया परमत्वादेव सत्यस्य योगलभ्य- त्वेन रूट्यकल्पनात् । अत एव प्रोक्षण्यधिकरणे प्रोक्षण्यादिशब्दस्य जलादौ योग एव न रूढिरित्युक्तम् । उक्तं च वार्तिके -- ' भवेतां यदि वृक्षस्य वाजिकर्णो कथंचन । तथाच-- 1, अदृष्टां समुदायस्य शक्ति जातु (न) कल्पयेत् ' ' ॥ इति । अक्षरैरेव बुद्धयन्ते समुदायप्रसिद्धितः । अर्थभागोपसंहारादितरा विप्रकृप्यते ॥

." इति रथकाराधिकरणीयवार्तिकोक्तस्य योगापेक्षया रूढिचलवत्त्वस्य क्लृप्त- रूढिविषयत्वात् स्वतन्त्रं परमार्थमिति स्मृत्युक्तपरिभाषायाः कार्यार्थ - त्वेन यथा नद्या इत्यादौ 'यू स्त्रयाख्यौ नदी ' ति परिभाषिता ईऊइत्यन्ताः. स्थली वनीत्यादिरूपा गृह्यन्ते नदीशब्देन नतु गङ्गायमुनाद्याः, कृत्रिमा- कृत्रिमयोः कृत्रिमे सम्प्रत्यय इति न्यायात् तथा सत्ये रूढस्यापि परमार्थशब्दस्य स्वतन्त्ररूपार्थग्रहणौचित्यात् । यववराहाधिकरणे शास्त्री- यरूढेर्लोकिकरूढ्यपेक्षया बलवत्त्वस्य स्थितत्वात्, योगेन परिभाषोप- पादने सत्येऽपि योगसंभवस्याक्तत्वाच्च, परमार्थशब्दः स्वतन्त्रार्थकः । अथवा ‘परमार्थोऽविनाशी' ति विष्णुपुराणोक्तेः सर्वभावानां मध्ये ब्रह्मा- विनाशीत्यर्थः । एवं 'विकल्प' इत्यादेरपि तर्कत्वात् न च निवर्तते, 1 कः शक्किं जातु कल्पयेत् -ग.