पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऎकमेवेत्यादिश्रुत्यर्थविचारः अन्यथागृह्णतः स्वप्नो निद्रा तत्त्वमजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदमञ्जते || अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्रमद्वैतं बुध्यते तदा ॥ प्रपञ्चो यदि विंधेत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः || विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते " || परिच्छेद:] 291 इति माण्डूक्योपनिषद्वयाख्या रूपगौडपादाचार्यग्रन्थस्थप्रथमप्रकरणोक्तश्लो- केभ्यः श्रुतित्वेन वैदिकप्रसिद्धेभ्यः परकीयेऽपि माण्डूक्यभाष्यादा व्याख्यातेभ्योऽपि द्वैतमिथ्यात्वम् । 6 ' निवृत्तेः सर्वदुः खानामीशानः प्रभुरव्ययः । अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ॥ इति लोके तुर्य आत्मा ज्ञातः सन् विश्वतैजसप्राज्ञ रूप सर्वभावरूपाणी दुःखानां निवृत्तेरीशानः यतोऽद्वैत इत्युक्ता- न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः' । इत्युक्तम् । तत्र कदा तुरीये निश्चिता इत्याकांक्षायामन्यथागृद्धत इत्यादिश्लोकावुक्तौ । तत्र न त्वं संसारी किंतु तत्त्वमसीति गुरुणा बोधितो मायया सुप्तो यदा प्रबुध्यते तदाद्वैतं बुध्यते । ततश्च विप- र्यासे क्षीणे तुरीयं स्वप्रकाशमनुभवतीत्यर्थः । विपर्यासे नष्ट चेत्तुरीया- नुभवस्तर्हि कथं स्वाभाविकमद्वैतं तत्राह - प्रपञ्चो यदीत्यादि । प्रपञ्चो यदि विद्येत यदि सन् स्यात्तदैव तत्वतो निवर्तेत, न सन्निति न तत्वतो निवर्तते किंतु मिथ्यात्वात् ज्ञाताधिष्ठानकत्वे शून्य एवेति मिथ्या द्वैतं न स्वाभाविकांद्वैतविरोधीत्यर्थः । ननु - प्रत्यक्षादिकं भवतु मिथ्या, - १ 18*