पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकमेवेत्यादिश्रुत्यर्थविचारः 277. मिन्नस्तावताणिनां तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गळस्य हरितस्य लोहितस्त्र पूर्णाः, अथ यत्रैनं मन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति यदेव जाग्रद्धयं पश्यति तदत्राविद्यया मन्यतेऽथ यत्र- देव इव राजेवाहमेवेदं सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माऽभयं रूपम् तद्यथा प्रियया स्त्रिया संपरिष्वक्तो न बा किंचन वेद नान्तरम् एवमेवायं पुरुषः प्राज्ञे नात्मना संपरिष्वक्तो न बाह्य किंचन वेद नान्तरम् तद्वाऽस्यैतदाप्त- काममात्मकाममकामं रूपं शोकान्तरमि 'त्यादि, 'यद्वै तन्न पश्यति, पश्यन्वै तन्न पश्यति न हि द्रष्टुष्टविपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्ये 'दित्यादिश्रुतेरपि द्वैतं मिथ्या | 'तद्वा अस्यैत 'दित्यादि 'अभयं वै जनक प्राप्तोऽसी 'ति पूर्वब्राह्मणे • यदुक्तमागमप्राधान्येनेह च तर्केण प्रश्चितं दार्ग्याय' तद्वै प्रसिद्धमस्य विद्योत्कर्षदशायामहमेव सर्व इति सर्वबाधेनाखण्डात्मतत्वरूपपरब्रह्मरूपेण जाग्रद्वासनया स्वप्ने भासमानतयोक्तस्य रूपमेतत् । 'न कंचन कामं कामयते न कंचन स्वप्नं पश्यती' त्यनेनोच्यमानमतिच्छन्दा निष्काम - मपहतपाप्मा पापहीनमभयं द्वैतसामान्येन जाग्रद्भयं पश्यति तदत्रा. विद्यया मन्यत इत्यत्र भयहेतुत्वेनोक्तेन शून्यमित्यर्थः । तथाच यतः स्वभावत एतदभय'मतः सुषुप्तौ देहान्तःकरणादिभयवियोगसंभवात्तद- दर्शनमविद्यायास्तदा दर्शनेऽपि देहादिदृष्टान्तेनैव दृश्यत्वाद्वियोगसंभव- ज्ञानेन दृश्यमात्रादर्शन रूपमुक्तिदशापि निश्चेतुं शक्यत इति भावः । नचास्यैतदित्यत्रै तच्छब्देन सौषुप्तजीवस्यैवाभयत्वेनोक्तत्वाज्जीवस्वरूप- मात्रस्याभयत्वालाभ इति – वाच्यम्; एतदभयमित्यस्याखण्डार्थत्वेन सौषुप्तत्वोपलक्षितस्याभयत्वोपलक्षिताभेदोक्तथा अवान्तरतात्पर्येण द्वैत- - 1 प्रपंचितार्थाय - ग. 2 एनदुभय- ग.