पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पीरच्छेदः] एकमेवेत्यादिश्रुत्य विचारः 273 पर्यवसितं 'एकमेवाद्वितीय ' मिति वाक्यम् । एवमन्या अपि श्रुतयः स्मृतयश्च ग्रन्थविस्तरभयानोदाहृताः । स्वयमेव सूरिभि- राकरे द्रष्टव्याः ।। इत्यद्वैतसिद्धौ सर्वाद्वैतश्रुतरद्वैततात्पर्यकत्वनिर्णयः एवमन्या अपीति । 'यत्र त्यस्य सर्वमात्मैबाभू' दिति श्रुति- रापे सर्वमिथ्यात्वे मानम् ; अस्य प्रमातुः यत्र तत्वदर्शनकाले सर्वा- भेदोपलक्षित आत्मैवाभूत् आत्मान्यन्नाभूदित्यर्थात्प्रमातृस्वरूप आत्मा- न्यसंबन्धिन्यात्मान्याभावसंबन्धलाभात् । अथवा सर्वमात्मेति बाधायां सामानाधिकरण्यम् ; तथाच सर्वाभावोपलक्षित आत्मा यत्राभूदित्यर्थः । सर्वपदस्यात्मान्य सर्वपरत्वेनासङ्कोचलाभार्थमेवकारः । तथाचोक्तोपलाक्ष- ताखण्डात्मार्थकस्यावान्तरतात्पर्येणात्माने तदन्यसर्वाभावबोधनान्मिथ्या- त्वपर्यवसायित्वम् । यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानत' इत्यादावपीयं रीतिः । नन्वेतद्वाक्यात्पूर्व ' यथा सैन्धवाखिल्य' इत्यादिना सैन्धवखण्डस्य समुद्र इव विज्ञानघनस्य जीवस्य ब्रह्माण स्थितिर्मोक्षो न त्वैक्यमिति सिद्धान्त उक्तः । न ह्यत्र समुद्रो जलराशि: किंतु जलखातो वरुणो वा ; पूर्ववाक्ये सर्वासामपां समुद्र एकायनमित्युक्तेः, नचायमेवा 'पामयनम्, नचेश्वरस्थानीयाभ्यां खातवरुणाभ्यां सैन्धव- खिल्यस्य जीवस्थानीय म्याभेद, न चा पामित्यनेनोक्तानां मुक्तस्था- नीयानामपां च समुद्रजलस्थानीया बहवो मुक्ता एकस्वभावाः, वरुण- वदपां खातवद्वा भगवाननन्तोऽपार इत्येवं सिद्धान्तमुक्त्वा 'अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा' इत्यत्राविनाशीत्यनेनात्मनाशो मोक्ष 6 2न वा-ग. 3 मपाम्, उक्तं च क. ग. 18 1 न चाप एवा -क. ग. w ADVAITA VOL. II. -